अर्चितं सततं यत्नाद् गन्धमाल्यैर्मया तव। इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्
पित्रा दशरथेन त्वं श्वशुरेण ममानघ। सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः
दिवि नक्षत्रभूतं च महत्कर्मकृतं तथा। पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे
किं मां न प्रेक्षसे राजन् किं वा न प्रतिभाषसे। बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम्
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत् त्वया। स्मर तन्नाम काकुत्स्थ नय मामपि दुःखिताम्
कस्मान्मामपहाय त्वं गतो गतिमतां वर। अस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम्
कल्याणै रुचिरं गात्रं परिष्वक्तं मयैव तु। क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः। अग्निहोत्रेण संस्कारं केन त्वं न तु लप्स्यसे
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्। परिप्रेक्ष्यति कौसल्या लक्ष्मणं शोकलालसा
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते। तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम्
सा त्वां सुप्तं हतं ज्ञात्वा मां च रक्षोगृहं गताम्। हृदयेनावदीर्णेन न भविष्यति राघव
मम हेतोरनार्याया अनघः पार्थिवात्मजः। रामः सागरमुत्तीर्य वीर्यवान् गोष्पदे हतः
अहं दाशरथेनोढा मोहात् स्वकुलपांसनी। आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत
नूनमन्यां मया जातिं वारितं दानमुत्तमम्। याहमद्यैव शोचामि भार्या सर्वातिथेरिह
साधु घातय मां क्षिप्रं रामस्योपरि रावण। समानय पतिं पत्न्या कुरु कल्याणमुत्तमम्
इतीव दुःखसंतप्ता विललापायतेक्षणा। भर्तुः शिरो धनुश्चैव ददर्श जनकात्मजा
एवं लालप्यमानायां सीतायां तत्र राक्षसः। अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः
विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च। न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम्
अमात्यैः सहितः सर्वैः प्रहस्तस्त्वामुपस्थितः। तेन दर्शनकामेन अहं प्रस्थापितः प्रभो
नूनमस्ति महाराज राजभावात् क्षमान्वित। किंचिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु
एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्। अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ
स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः। सभां प्रविश्य विदधे विदित्वा रामविक्रमम्
अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्। जगाम रावणस्यैव निर्याणसमनन्तरम्
राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः। समर्थयामास तदा रामकार्यविनिश्चयम्
अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः। अब्रवीत् कालसदृशं रावणो राक्षसाधिपः
शीघ्रं भेरीनिनादेन स्फुटं कोणाहतेन मे। समानयध्वं सैन्यानि वक्तव्यं च न कारणम्
ततस्तथेति प्रतिगृह्य तद्वच- स्तदैव दूताः सहसा महद् बलम्। समानयंश्चैव समागतं च न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि
thumb|त्रयस्त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥६-
सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी। आससादाथ वैदेहीं प्रियां प्रणयिनी सखीम्
मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम्। आश्वासयामास तदा सरमा मृदुभाषिणी