कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः। गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः
विश्वामित्रो महातेजाः पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजा राज्यमकारयत्
कदाचित् तु महातेजा योजयित्वा वरूथिनीम्। अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्
नगराणि च राष्ट्राणि सरितश्च महागिरीन्। आश्रमान् क्रमशो राजा विचरन्नाजगाम ह
वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्
देवदानवगन्धर्वैः किंनरैरुपशोभितम्। प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्। तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः। अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः। ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्। वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्। ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विपञ्चाशः सर्गः ॥१-
तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः। प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम्
स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना। आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह
उपविष्टाय च तदा विश्वामित्राय धीमते। यथान्यायं मुनिवरः फलमूलमुपाहरत्
प्रतिगृह्य तु तां पूजां वसिष्ठाद् राजसत्तमः। तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत
विश्वामित्रो महातेजा वनस्पतिगणे तदा। सर्वत्र कुशलं प्राह वसिष्ठो राजसत्तमम्
सुखोपविष्टं राजानं विश्वामित्रं महातपाः। पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः
कच्चित्ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन्। प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक
कच्चित्ते सम्भृता भृत्याः कच्चित् तिष्ठन्ति शासने। कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन
कच्चिद् बलेषु कोशेषु मित्रेषु च परंतप। कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ
सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्। विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम्
कृत्वा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा। मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्
ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन। विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल। तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे
सत्क्रियां हि भवानेतां प्रतीच्छतु मया कृताम्। राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः
एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः। कृतमित्यब्रवीद् राजा पूजावाक्येन मे त्वया
फलमूलेन भगवन् विद्यते यत् तवाश्रमे। पाद्येनाचमनीयेन भगवद्दर्शनेन च
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः। नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा
एवं ब्रुवन्तं राजानं वसिष्ठं पुनरेव हि। न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः
बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह। यथाप्रियं भगवतस्तथास्तु मुनिपुंगव