प्रसृताश्च परे त्रस्ता हन्यमाना जघन्यतः। अनुद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः
सागरे पतिताः केचित् केचिद् गगनमाश्रिताः। ऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः
सागरस्य च तीरेषु शैलेषु च वनेषु च। पिङ्गलास्ते विरूपाक्षै राक्षसैर्बहवो हताः
एवं तव हतो भर्ता ससैन्यो मम सेनया। क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः। सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत्
राक्षसं क्रूरकर्माणं विद्युज्जिह्वं समानय। येन तद्राघवशिरः संग्रामात् स्वयमाहृतम्
विद्युज्जिह्वस्तदा गृह्य शिरस्तत्सशरासनम्। प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः
तमब्रवीत् ततो राजा रावणो राक्षसं स्थितम्। विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम्
अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः। अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु
एवमुक्तं तु तद् रक्षः शिरस्तत् प्रियदर्शनम्। उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत
रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्। त्रिषु लोकेषु विख्यातं रामस्यैतदिति ब्रुवन्
इदं तत् तव रामस्य कार्मुकं ज्यासमावृतम्। इह प्रहस्तेनानीतं तं हत्वा निशि मानुषम्
स विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्यमाणः। विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत् तां भव मे वशानुगा
thumb|द्वात्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वात्रिंशः सर्गः ॥६-
सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्। सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्। केशान् केशान्तदेशं च तं च चूडामणिं शुभम्
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता। विजगर्हेऽत्र कैकेयीं क्रोशन्ती कुररी यथा
सकामा भव कैकेयि हतोऽयं कुलनन्दनः। कुलमुत्सादितं सर्वं त्वया कलहशीलया
आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्। यन्मया चीरवसनं दत्त्वा प्रव्राजितो वनम्
एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी। जगाम जगतीं बाला छिन्ना तु कदली यथा
सा मुहूर्तात् समाश्वस्य परिलभ्याथ चेतनाम्। तच्छिरः समुपास्थाय विललापायतेक्षणा
हा हतास्मि महाबाहो वीरव्रतमनुव्रत। इमां ते पश्चिमावस्थां गतास्मि विधवा कृता
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते। सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः
महद् दुःखं प्रपन्नाया मग्नायाः शोकसागरे। यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव। वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता
उद्दिष्टं दीर्घमायुस्ते दैवज्ञैरपि राघव। अनृतं वचनं तेषामल्पायुरसि राघव
अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव। पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम्
अदृष्टं मृत्युमापन्नः कस्मात् त्वं नयशास्त्रवित्। व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने
तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया। कालरात्र्या ममाच्छिद्य हृतः कमललोचन
इह शेषे महाबाहो मां विहाय तपस्विनीम्। प्रियामिव यथा नारीं पृथिवीं पुरुषर्षभ