मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः। अयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम्। ततः स मन्त्रयामास राक्षसैः सचिवैः सह
मन्त्रयित्वा तु दुर्धर्षः क्षमं यत् तदनन्तरम्। विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम्
ततो राक्षसमादाय विद्युज्जिह्वं महाबलम्। मायाविनं महामायं प्राविशद् यत्र मैथिली
विद्युज्जिह्वं च मायाज्ञमब्रवीद् राक्षसाधिपः। मोहयिष्यावहे सीतां मायया जनकात्मजाम्
शिरो मायामयं गृह्य राघवस्य निशाचर। मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः। दर्शयामास तां मायां सुप्रयुक्तां स रावणे
तस्य तुष्टोऽभवद् राजा प्रददौ च विभूषणम्। अशोकवनिकायां च सीतादर्शनलालसः
नैर्ऋतानामधिपतिः संविवेश महाबलः। ततो दीनामदैन्यार्हां ददर्श धनदानुजः
अधोमुखीं शोकपरामुपविष्टां महीतले। भर्तारं समनुध्यान्तीमशोकवनिकां गताम्
उपास्यमानां घोराभी राक्षसीभिरदूरतः। उपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन्
इदं च वचनं धृष्टमुवाच जनकात्मजाम्। सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे
खरहन्ता स ते भर्ता राघवः समरे हतः। छिन्नं ते सर्वथा मूलं दर्पश्च निहतो मया
व्यसनेनात्मनः सीते मम भार्या भविष्यसि। विसृजैतां मतिं मूढे किं मृतेन करिष्यसि
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम। अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि। शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा
समायातः समुद्रान्तं हन्तुं मां किल राघवः। वानरेन्द्रप्रणीतेन बलेन महता वृतः
संनिविष्टः समुद्रस्य पीड्य तीरमथोत्तरम्। बलेन महता रामो व्रजत्यस्तं दिवाकरे
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्। सुखसुप्तं समासाद्य चरितं प्रथमं चरैः
तत्प्रहस्तप्रणीतेन बलेन महता मम। बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः
पट्टिशान् परिघांश्चक्रानृष्टीन् दण्डान् महायुधान्। बाणजालानि शूलानि भास्वरान् कूटमुद्गरान्
यष्टीश्च तोमरान् प्रासांश्चक्राणि मुसलानि च। उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना। असक्तं कृतहस्तेन शिरश्छिन्नं महासिना
विभीषणः समुत्पत्य निगृहीतो यदृच्छया। दिशः प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः। निरस्तहनुकः सीते हनूमान् राक्षसैर्हतः
जाम्बवानथ जानुभ्यामुत्पतन् निहतो युधि। पट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा
मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ। निःश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ
असिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ। अनुश्वसिति मेदिन्यां पनसः पनसो यथा
नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः। कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः
हरयो मथिता नागै रथजालैस्तथापरे। शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः
प्रसृताश्च परे त्रस्ता हन्यमाना जघन्यतः। अनुद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः