पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः। गजो गवाक्षो गवयः शरभो गन्धमादनः
दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम्। श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे
पुत्रो दशरथस्यैष सिंहसंहननो युवा। दूषणो निहतो येन खरश्च त्रिशिरास्तथा
नास्ति रामस्य सदृशे विक्रमे भुवि कश्चन। विराधो निहतो येन कबन्धश्चान्तकोपमः
लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभः। यस्य बाणपथं प्राप्य न जीवेदपि वासवः
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः। विक्रान्तो वेगवानत्र वसुपुत्रः स दुर्धरः
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः। प्रतिगृह्य पुरीं लङ्कां राघवस्य हिते रतः
इति सर्वं समाख्यातं तथा वै वानरं बलम्। सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकत्रिंशः सर्गः ॥६-
ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्। जातोद्वेगोऽभवत् किंचित् सचिवानिदमब्रवीत्
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः। अयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम्। ततः स मन्त्रयामास राक्षसैः सचिवैः सह
मन्त्रयित्वा तु दुर्धर्षः क्षमं यत् तदनन्तरम्। विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम्
ततो राक्षसमादाय विद्युज्जिह्वं महाबलम्। मायाविनं महामायं प्राविशद् यत्र मैथिली
विद्युज्जिह्वं च मायाज्ञमब्रवीद् राक्षसाधिपः। मोहयिष्यावहे सीतां मायया जनकात्मजाम्
शिरो मायामयं गृह्य राघवस्य निशाचर। मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः। दर्शयामास तां मायां सुप्रयुक्तां स रावणे
तस्य तुष्टोऽभवद् राजा प्रददौ च विभूषणम्। अशोकवनिकायां च सीतादर्शनलालसः
नैर्ऋतानामधिपतिः संविवेश महाबलः। ततो दीनामदैन्यार्हां ददर्श धनदानुजः
अधोमुखीं शोकपरामुपविष्टां महीतले। भर्तारं समनुध्यान्तीमशोकवनिकां गताम्
उपास्यमानां घोराभी राक्षसीभिरदूरतः। उपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन्
इदं च वचनं धृष्टमुवाच जनकात्मजाम्। सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे
खरहन्ता स ते भर्ता राघवः समरे हतः। छिन्नं ते सर्वथा मूलं दर्पश्च निहतो मया
व्यसनेनात्मनः सीते मम भार्या भविष्यसि। विसृजैतां मतिं मूढे किं मृतेन करिष्यसि
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम। अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि। शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा
समायातः समुद्रान्तं हन्तुं मां किल राघवः। वानरेन्द्रप्रणीतेन बलेन महता वृतः
संनिविष्टः समुद्रस्य पीड्य तीरमथोत्तरम्। बलेन महता रामो व्रजत्यस्तं दिवाकरे
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्। सुखसुप्तं समासाद्य चरितं प्रथमं चरैः
तत्प्रहस्तप्रणीतेन बलेन महता मम। बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः