एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्। चरिता भवता सेना केऽत्र शूराः प्लवंगमाः
किंप्रभाः कीदृशाः सौम्य वानरा ये दुरासदाः। कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस
तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्। अवश्यं खलु संख्यानं कर्तव्यं युद्धमिच्छता
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः। इदं वचनमारेभे वक्तुं रावणसंनिधौ
अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः। गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः
गद्गदस्याथ पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः। कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम्
सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्। सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः। मृत्युर्वानररूपेण नूनं सृष्टः स्वयंभुवा
पुत्रो हुतवहस्यात्र नीलः सेनापतिः स्वयम्। अनिलस्य तु पुत्रोऽत्र हनूमानिति विश्रुतः
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा। मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ
पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः। गजो गवाक्षो गवयः शरभो गन्धमादनः
दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम्। श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे
पुत्रो दशरथस्यैष सिंहसंहननो युवा। दूषणो निहतो येन खरश्च त्रिशिरास्तथा
नास्ति रामस्य सदृशे विक्रमे भुवि कश्चन। विराधो निहतो येन कबन्धश्चान्तकोपमः
लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभः। यस्य बाणपथं प्राप्य न जीवेदपि वासवः
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः। विक्रान्तो वेगवानत्र वसुपुत्रः स दुर्धरः
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः। प्रतिगृह्य पुरीं लङ्कां राघवस्य हिते रतः
इति सर्वं समाख्यातं तथा वै वानरं बलम्। सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः
thumb|एकत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकत्रिंशः सर्गः ॥६-
ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्। जातोद्वेगोऽभवत् किंचित् सचिवानिदमब्रवीत्
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः। अयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम्। ततः स मन्त्रयामास राक्षसैः सचिवैः सह
मन्त्रयित्वा तु दुर्धर्षः क्षमं यत् तदनन्तरम्। विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम्
ततो राक्षसमादाय विद्युज्जिह्वं महाबलम्। मायाविनं महामायं प्राविशद् यत्र मैथिली
विद्युज्जिह्वं च मायाज्ञमब्रवीद् राक्षसाधिपः। मोहयिष्यावहे सीतां मायया जनकात्मजाम्
शिरो मायामयं गृह्य राघवस्य निशाचर। मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः। दर्शयामास तां मायां सुप्रयुक्तां स रावणे
तस्य तुष्टोऽभवद् राजा प्रददौ च विभूषणम्। अशोकवनिकायां च सीतादर्शनलालसः
नैर्ऋतानामधिपतिः संविवेश महाबलः। ततो दीनामदैन्यार्हां ददर्श धनदानुजः