प्रेक्षमाणाश्चमूं तां च बभूवुर्भयविह्वलाः। ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः
विभीषणेन तत्रस्था निगृहीता यदृच्छया। शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः
मोचितः सोऽपि रामेण वध्यमानः प्लवंगमैः। आनृशंस्येन रामेण मोचिता राक्षसाः परे
वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः। पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः
thumb|त्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिंशः सर्गः ॥६-
ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्। जातोद्वेगोऽभवत् किंचिच्छार्दूलं वाक्यमब्रवीत्
अयथावच्च ते वर्णो दीनश्चासि निशाचर। नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः
इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयन्। तदा राक्षसशार्दूलं शार्दूलो भयविक्लवः
न ते चारयितुं शक्या राजन् वानरपुङ्गवाः। विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते। सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन् विचारिते। बलाद् गृहीतो रक्षोभिर्बहुधास्मि विचारितः
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम्। परिणीतोऽस्मि हरिभिर्बलमध्ये अमर्षणैः
परिणीय च सर्वत्र नीतोऽहं रामसंसदि। रुधिरस्राविदीनाङ्गो विह्वलश्चलितेन्द्रियः
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः। राघवेण परित्रातो मा मेति च यदृच्छया
एष शैलशिलाभिस्तु पूरयित्वा महार्णवम्। द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः। मां विसृज्य महातेजा लङ्कामेवातिवर्तते
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु। सीतां वापि प्रयच्छाशु युद्धं वापि प्रदीयताम्
मनसा तत् तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः। शार्दूलं सुमहद्वाक्यमथोवाच स रावणः
यदि मां प्रतियुध्यन्ते देवगन्धर्वदानवाः। नैव सीतां प्रदास्यामि सर्वलोकभयादपि
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्। चरिता भवता सेना केऽत्र शूराः प्लवंगमाः
किंप्रभाः कीदृशाः सौम्य वानरा ये दुरासदाः। कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस
तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्। अवश्यं खलु संख्यानं कर्तव्यं युद्धमिच्छता
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः। इदं वचनमारेभे वक्तुं रावणसंनिधौ
अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः। गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः
गद्गदस्याथ पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः। कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम्
सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्। सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः। मृत्युर्वानररूपेण नूनं सृष्टः स्वयंभुवा
पुत्रो हुतवहस्यात्र नीलः सेनापतिः स्वयम्। अनिलस्य तु पुत्रोऽत्र हनूमानिति विश्रुतः
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा। मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ