शतमोघसहस्राणां महौघा इति विश्रुतः। एवं कोटिसहस्रेण शङ्कूनां च शतेन च। महाशङ्कुसहस्रेण तथा वृन्दशतेन च
महावृन्दसहस्रेण तथा पद्मशतेन च। महापद्मसहस्रेण तथा खर्वशतेन च
समुद्रेण च तेनैव महौघेन तथैव च एष कोटिमहौघेन समुद्रसदृशेन च
विभीषणेन वीरेण सचिवैः परिवारितः। सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमनुवर्तते। महाबलवृतो नित्यं महाबलपराक्रमः
इमां महाराज समीक्ष्य वाहिनी- मुपस्थितां प्रज्वलितग्रहोपमाम्। ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराभवः
thumb|एकोनत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-
शुकेन तु समादिष्टान् दृष्ट्वा स हरियूथपान्। लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्
समीपस्थं च रामस्य भ्रातरं च विभीषणम्। सर्ववानरराजं च सुग्रीवं भीमविक्रमम्
अङ्गदं चापि बलिनं वज्रहस्तात्मजात्मजम्। हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम्
सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम्। गजं गवाक्षं शरभं मैन्दं च द्विविदं तथा
किंचिदाविग्नहृदयो जातक्रोधश्च रावणः। भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ
अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ। रोषगद्गदया वाचा संरब्धं परुषं तथा
न तावत् सदृशं नाम सचिवैरुपजीविभिः। विप्रियं नृपतेर्वक्तुं निग्रहे प्रग्रहे प्रभोः
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्। उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम्
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः। सारं यद् राजशास्त्राणामनुजीव्यं न गृह्यते
गृहीतो वा न विज्ञातो भारोऽज्ञानस्य वाह्यते। ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम्
किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः। यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्
अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः। राजदण्डपरामृष्टास्तिष्ठन्ते नापराधिनः
हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसिनौ। यदि पूर्वोपकारैर्मे क्रोधो न मृदुतां व्रजेत्
अपध्वंसत नश्यध्वं संनिकर्षादितो मम। नहि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम्। हतावेव कृतघ्नौ द्वौ मयि स्नेहपराङ्मुखौ
एवमुक्तौ तु सव्रीडौ तौ दृष्ट्वा शुकसारणौ। रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ
अब्रवीच्च दशग्रीवः समीपस्थं महोदरम्। उपस्थापय मे शीघ्रं चारानिति निशाचरः। महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान्
ततश्चाराः संत्वरिताः प्राप्ताः पार्थिवशासनात्। उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषः
तानब्रवीत् ततो वाक्यं रावणो राक्षसाधिपः। चारान् प्रत्यायिकान् शूरान् धीरान् विगतसाध्वसान्
इतो गच्छत रामस्य व्यवसायं परीक्षितुम्। मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः
कथं स्वपिति जागर्ति किमद्य च करिष्यति। विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः
चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः। युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते
चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम्। शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम्
ततस्तं तु महात्मानं चारा राक्षससत्तमम्। कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः
ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ। प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ