श्रीमता राजराजेन लङ्कायामभिषेचितः। त्वामसौ प्रतिसंरब्धो युद्धायैषोऽभिवर्तते
तेजसा यशसा बुद्ध्या बलेनाभिजनेन च। यः कपीनतिबभ्राज हिमवानिव पर्वतः
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्। दुर्गां पर्वतदुर्गम्यां प्रधानैः सह यूथपैः
यस्यैषा काञ्चनी माला शोभते शतपुष्करा। कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता
एतां मालां च तारां च कपिराज्यं च शाश्वतम्। सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः
शतं शतसहस्राणां कोटिमाहुर्मनीषिणः। शतं कोटिसहस्राणां शङ्कुरित्यभिधीयते
शतं शङ्कुसहस्राणां महाशङ्कुरिति स्मृतः। महाशङ्कुसहस्राणां शतं वृन्दमिहोच्यते
शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम्। महावृन्दसहस्राणां शतं पद्ममिहोच्यते
शतं पद्मसहस्राणां महापद्ममिति स्मृतम्। महापद्मसहस्राणां शतं खर्वमिहोच्यते
शतं खर्वसहस्राणां महाखर्वमिति स्मृतम्। महाखर्वसहस्राणां समुद्रमभिधीयते। शतं समुद्रसाहस्रमोघ इत्यभिधीयते
शतमोघसहस्राणां महौघा इति विश्रुतः। एवं कोटिसहस्रेण शङ्कूनां च शतेन च। महाशङ्कुसहस्रेण तथा वृन्दशतेन च
महावृन्दसहस्रेण तथा पद्मशतेन च। महापद्मसहस्रेण तथा खर्वशतेन च
समुद्रेण च तेनैव महौघेन तथैव च एष कोटिमहौघेन समुद्रसदृशेन च
विभीषणेन वीरेण सचिवैः परिवारितः। सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमनुवर्तते। महाबलवृतो नित्यं महाबलपराक्रमः
इमां महाराज समीक्ष्य वाहिनी- मुपस्थितां प्रज्वलितग्रहोपमाम्। ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराभवः
thumb|एकोनत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-
शुकेन तु समादिष्टान् दृष्ट्वा स हरियूथपान्। लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्
समीपस्थं च रामस्य भ्रातरं च विभीषणम्। सर्ववानरराजं च सुग्रीवं भीमविक्रमम्
अङ्गदं चापि बलिनं वज्रहस्तात्मजात्मजम्। हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम्
सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम्। गजं गवाक्षं शरभं मैन्दं च द्विविदं तथा
किंचिदाविग्नहृदयो जातक्रोधश्च रावणः। भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ
अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ। रोषगद्गदया वाचा संरब्धं परुषं तथा
न तावत् सदृशं नाम सचिवैरुपजीविभिः। विप्रियं नृपतेर्वक्तुं निग्रहे प्रग्रहे प्रभोः
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्। उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम्
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः। सारं यद् राजशास्त्राणामनुजीव्यं न गृह्यते
गृहीतो वा न विज्ञातो भारोऽज्ञानस्य वाह्यते। ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम्
किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः। यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्
अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः। राजदण्डपरामृष्टास्तिष्ठन्ते नापराधिनः
हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसिनौ। यदि पूर्वोपकारैर्मे क्रोधो न मृदुतां व्रजेत्
अपध्वंसत नश्यध्वं संनिकर्षादितो मम। नहि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम्। हतावेव कृतघ्नौ द्वौ मयि स्नेहपराङ्मुखौ