एष आशंसते लङ्कामेको मथितुमोजसा। येन जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै। लङ्कायां निहितश्चापि कथं विस्मरसे कपिम्
यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः। इक्ष्वाकूणामतिरथो लोके विश्रुतपौरुषः
यस्मिन् न चलते धर्मो यो धर्मं नातिवर्तते। यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः
यो भिन्द्याद् गगनं बाणैर्मेदिनीं वापि दारयेत्। यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः
यस्य भार्या जनस्थानात् सीता चापि हृता त्वया। स एष रामस्त्वां राजन् योद्धुं समभिवर्तते
यस्यैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः। विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः
एषो हि लक्ष्मणो नाम भ्रातुः प्रियहिते रतः। नये युद्धे च कुशलः सर्वशस्त्रभृतां वरः
अमर्षी दुर्जयो जेता विक्रान्तश्च जयी बली। रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः
नह्येष राघवस्यार्थे जीवितं परिरक्षति। एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान्
यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति। रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः
श्रीमता राजराजेन लङ्कायामभिषेचितः। त्वामसौ प्रतिसंरब्धो युद्धायैषोऽभिवर्तते
तेजसा यशसा बुद्ध्या बलेनाभिजनेन च। यः कपीनतिबभ्राज हिमवानिव पर्वतः
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्। दुर्गां पर्वतदुर्गम्यां प्रधानैः सह यूथपैः
यस्यैषा काञ्चनी माला शोभते शतपुष्करा। कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता
एतां मालां च तारां च कपिराज्यं च शाश्वतम्। सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः
शतं शतसहस्राणां कोटिमाहुर्मनीषिणः। शतं कोटिसहस्राणां शङ्कुरित्यभिधीयते
शतं शङ्कुसहस्राणां महाशङ्कुरिति स्मृतः। महाशङ्कुसहस्राणां शतं वृन्दमिहोच्यते
शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम्। महावृन्दसहस्राणां शतं पद्ममिहोच्यते
शतं पद्मसहस्राणां महापद्ममिति स्मृतम्। महापद्मसहस्राणां शतं खर्वमिहोच्यते
शतं खर्वसहस्राणां महाखर्वमिति स्मृतम्। महाखर्वसहस्राणां समुद्रमभिधीयते। शतं समुद्रसाहस्रमोघ इत्यभिधीयते
शतमोघसहस्राणां महौघा इति विश्रुतः। एवं कोटिसहस्रेण शङ्कूनां च शतेन च। महाशङ्कुसहस्रेण तथा वृन्दशतेन च
महावृन्दसहस्रेण तथा पद्मशतेन च। महापद्मसहस्रेण तथा खर्वशतेन च
समुद्रेण च तेनैव महौघेन तथैव च एष कोटिमहौघेन समुद्रसदृशेन च
विभीषणेन वीरेण सचिवैः परिवारितः। सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमनुवर्तते। महाबलवृतो नित्यं महाबलपराक्रमः
इमां महाराज समीक्ष्य वाहिनी- मुपस्थितां प्रज्वलितग्रहोपमाम्। ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराभवः
thumb|एकोनत्रिंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनत्रिंशः सर्गः ॥६-
शुकेन तु समादिष्टान् दृष्ट्वा स हरियूथपान्। लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्
समीपस्थं च रामस्य भ्रातरं च विभीषणम्। सर्ववानरराजं च सुग्रीवं भीमविक्रमम्
अङ्गदं चापि बलिनं वज्रहस्तात्मजात्मजम्। हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम्
सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम्। गजं गवाक्षं शरभं मैन्दं च द्विविदं तथा