एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ। सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्
अपि ते मुनिशार्दूल मम माता यशस्विनी। दर्शिता राजपुत्राय तपोदीर्घमुपागता
अपि रामे महातेजा मम माता यशस्विनी। वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम्
अपि रामाय कथितं यद् वृत्तं तत् पुरातनम्। मम मातुर्महातेजो देवेन दुरनुष्ठितम्
अपि कौशिक भद्रं ते गुरुणा मम संगता। मम माता मुनिश्रेष्ठ रामसंदर्शनादितः
अपि मे गुरुणा रामः पूजितः कुशिकात्मज। इहागतो महातेजाः पूजां प्राप्य महात्मनः
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज। इहागतेन रामेण पूजितेनाभिवादितः
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः। प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया। संगता मुनिना पत्नी भार्गवेणेव रेणुका
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः। शतानन्दो महातेजा रामं वचनमब्रवीत्
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव। विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः। विश्वामित्रो महातेजा वेद्म्येनं परमां गतिम्
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन। गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः
श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः। यथाबलं यथातत्त्वं तन्मे निगदतः शृणु
राजाऽऽसीदेष धर्मात्मा दीर्घकालमरिंदमः। धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः
प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः। कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः
कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः। गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः
विश्वामित्रो महातेजाः पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजा राज्यमकारयत्
कदाचित् तु महातेजा योजयित्वा वरूथिनीम्। अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्
नगराणि च राष्ट्राणि सरितश्च महागिरीन्। आश्रमान् क्रमशो राजा विचरन्नाजगाम ह
वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्
देवदानवगन्धर्वैः किंनरैरुपशोभितम्। प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्। तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः। अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः। ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्। वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्। ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः
thumb|द्विपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विपञ्चाशः सर्गः ॥१-
तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः। प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम्
स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना। आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह
उपविष्टाय च तदा विश्वामित्राय धीमते। यथान्यायं मुनिवरः फलमूलमुपाहरत्