यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः। सर्वकामफला वृक्षाः सदा फलसमन्विताः
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे। तत्रैष रमते राजन् रम्ये काञ्चनपर्वते
मुख्यो वानरमुख्यानां केसरी नाम यूथपः। षष्टिर्गिरिसहस्राणि रम्याः काञ्चनपर्वताः
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्। तत्रैके कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः
निवसन्त्यन्तिमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः। सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः
सर्वे वैश्वानरसमा ज्वलदाशीविषोपमाः। सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः
महापर्वतसंकाशा महाजीमूतनिःस्वनाः। वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः
मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते। एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्
जयार्थी नित्यमादित्यमुपतिष्ठति वीर्यवान्। नाम्ना पृथिव्यां विख्यातो राजन् शतबलीति यः
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्। विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः
रामप्रियार्थं प्राणानां दयां न कुरुते हरिः। गजो गवाक्षो गवयो नलो नीलश्च वानरः
एकैकमेव योधानां कोटिभिर्दशभिर्वृतः। तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः। न शक्यन्ते बहुत्वात् तु संख्यातुं लघुविक्रमाः
सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः। सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम्
thumb|अष्टाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाविंशः सर्गः ॥६-
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्। बलमादिश्य तत् सर्वं शुको वाक्यमथाब्रवीत्
स्थितान् पश्यसि यानेतान् मत्तानिव महाद्विपान्। न्यग्रोधानिव गाङ्गेयान् सालान् हैमवतानिव
एते दुष्प्रसहा राजन् बलिनः कामरूपिणः। दैत्यदानवसंकाशा युद्धे देवपराक्रमाः
एषां कोटिसहस्राणि नव पञ्च च सप्त च। तथा शङ्कुसहस्राणि तथा वृन्दशतानि च
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा। हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ। मैन्दश्च द्विविदश्चैव ताभ्यां नास्ति समो युधि
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ। आशंसेते यथा लङ्कामेतौ मर्दितुमोजसा
यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम्। यो बलात् क्षोभयेत् क्रुद्धः समुद्रमपि वानरः
एषोऽभिगन्ता लङ्कायां वैदेह्यास्तव च प्रभो। एनं पश्य पुरा दृष्टं वानरं पुनरागतम्
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः। हनूमानिति विख्यातो लङ्घितो येन सागरः
कामरूपो हरिश्रेष्ठो बलरूपसमन्वितः। अनिवार्यगतिश्चैव यथा सततगः प्रभुः
उद्यन्तं भास्करं दृष्ट्वा बालः किल बुभुक्षितः। त्रियोजनसहस्रं तु अध्वानमवतीर्य हि
आदित्यमाहरिष्यामि न मे क्षुत् प्रतियास्यति। इति निश्चित्य मनसा पुप्लुवे बलदर्पितः
अनाधृष्यतमं देवमपि देवर्षिराक्षसैः। अनासाद्यैव पतितो भास्करोदयने गिरौ
पतितस्य कपेरस्य हनुरेका शिलातले। किंचिद् भिन्ना दृढहनुर्हनूमानेष तेन वै
सत्यमागमयोगेन ममैष विदितो हरिः। नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम्