यो गङ्गामनुपर्येति त्रासयन् गजयूथपान्। हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः। गजान् रोधयते वन्यानारुजंश्च महीरुहान्
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्। एनं शतसहस्राणां सहस्रमभिवर्तते
वीर्यविक्रमदृप्तानां नर्दतां बाहुशालिनाम्। स एष नेता चैतेषां वानराणां महात्मनाम्
स एष दुर्धरो राजन् प्रमाथी नाम यूथपः। वातेनेवोद्धतं मेघं यमेनमनुपश्यसि
अनीकमपि संरब्धं वानराणां तरस्विनाम्। उद्धूतमरुणाभासं पवनेन समन्ततः
विवर्तमानं बहुशो यत्रैतद्बहुलं रजः। एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्। गोलाङ्गूलं महाराज गवाक्षं नाम यूथपम्
परिवार्याभिनर्दन्ते लङ्कां मर्दितुमोजसा। भ्रमराचरिता यत्र सर्वकालफलद्रुमाः
यं सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम्। यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः। सर्वकामफला वृक्षाः सदा फलसमन्विताः
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे। तत्रैष रमते राजन् रम्ये काञ्चनपर्वते
मुख्यो वानरमुख्यानां केसरी नाम यूथपः। षष्टिर्गिरिसहस्राणि रम्याः काञ्चनपर्वताः
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्। तत्रैके कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः
निवसन्त्यन्तिमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः। सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः
सर्वे वैश्वानरसमा ज्वलदाशीविषोपमाः। सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः
महापर्वतसंकाशा महाजीमूतनिःस्वनाः। वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः
मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते। एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्
जयार्थी नित्यमादित्यमुपतिष्ठति वीर्यवान्। नाम्ना पृथिव्यां विख्यातो राजन् शतबलीति यः
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्। विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः
रामप्रियार्थं प्राणानां दयां न कुरुते हरिः। गजो गवाक्षो गवयो नलो नीलश्च वानरः
एकैकमेव योधानां कोटिभिर्दशभिर्वृतः। तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः। न शक्यन्ते बहुत्वात् तु संख्यातुं लघुविक्रमाः
सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः। सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम्
thumb|अष्टाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाविंशः सर्गः ॥६-
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्। बलमादिश्य तत् सर्वं शुको वाक्यमथाब्रवीत्
स्थितान् पश्यसि यानेतान् मत्तानिव महाद्विपान्। न्यग्रोधानिव गाङ्गेयान् सालान् हैमवतानिव
एते दुष्प्रसहा राजन् बलिनः कामरूपिणः। दैत्यदानवसंकाशा युद्धे देवपराक्रमाः
एषां कोटिसहस्राणि नव पञ्च च सप्त च। तथा शङ्कुसहस्राणि तथा वृन्दशतानि च
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा। हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ। मैन्दश्च द्विविदश्चैव ताभ्यां नास्ति समो युधि