य एनमभिसंरब्धं प्लवमानमवस्थितम्। प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम्
एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः। बलेन बलसंयुक्तो दम्भो नामैष यूथपः
यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते। ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्
यस्मात् तु परमं रूपं चतुष्पात्सु न विद्यते। श्रुतः संनादनो नाम वानराणां पितामहः
येन युद्धं तदा दत्तं रणे शक्रस्य धीमता। पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः। एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना
तदा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्। यत्र वैश्रवणो राजा जम्बूमुपनिषेवते
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्। विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप
तत्रैष रमते श्रीमान् बलवान् वानरोत्तमः। युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः
वृतः कोटिसहस्रेण हरीणां समवस्थितः। एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
यो गङ्गामनुपर्येति त्रासयन् गजयूथपान्। हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः। गजान् रोधयते वन्यानारुजंश्च महीरुहान्
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्। एनं शतसहस्राणां सहस्रमभिवर्तते
वीर्यविक्रमदृप्तानां नर्दतां बाहुशालिनाम्। स एष नेता चैतेषां वानराणां महात्मनाम्
स एष दुर्धरो राजन् प्रमाथी नाम यूथपः। वातेनेवोद्धतं मेघं यमेनमनुपश्यसि
अनीकमपि संरब्धं वानराणां तरस्विनाम्। उद्धूतमरुणाभासं पवनेन समन्ततः
विवर्तमानं बहुशो यत्रैतद्बहुलं रजः। एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्। गोलाङ्गूलं महाराज गवाक्षं नाम यूथपम्
परिवार्याभिनर्दन्ते लङ्कां मर्दितुमोजसा। भ्रमराचरिता यत्र सर्वकालफलद्रुमाः
यं सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम्। यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः। सर्वकामफला वृक्षाः सदा फलसमन्विताः
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे। तत्रैष रमते राजन् रम्ये काञ्चनपर्वते
मुख्यो वानरमुख्यानां केसरी नाम यूथपः। षष्टिर्गिरिसहस्राणि रम्याः काञ्चनपर्वताः
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्। तत्रैके कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः
निवसन्त्यन्तिमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः। सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः
सर्वे वैश्वानरसमा ज्वलदाशीविषोपमाः। सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः
महापर्वतसंकाशा महाजीमूतनिःस्वनाः। वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः
मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते। एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्
जयार्थी नित्यमादित्यमुपतिष्ठति वीर्यवान्। नाम्ना पृथिव्यां विख्यातो राजन् शतबलीति यः
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्। विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः