षष्टिः शतसहस्राणि बलमस्य प्लवंगमाः। त्वामाह्वयति युद्धाय क्रोधनो नाम वानरः
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः। यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः
अवमत्य सदा सर्वान् वानरान् बलदर्पितः। गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते
एनं शतसहस्राणि सप्ततिः पर्युपासते। एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
एते दुष्प्रसहा वीरा येषां संख्या न विद्यते। यूथपा यूथपश्रेष्ठास्तेषां यूथानि भागशः
thumb|सप्तविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तविंशः सर्गः ॥६-
तांस्तु ते सम्प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्। राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्
स्निग्धा यस्य बहुव्यामा दीर्घलाङ्गूलमाश्रिताः। ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः
प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः। पृथिव्यां चानुकृष्यन्ते हरो नामैष वानरः
यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः। वृक्षानुद्यम्य सहसा लङ्कारोहणतत्पराः
यूथपा हरिराजस्य किंकराः समुपस्थिताः। नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि
असिताञ्जनसंकाशान् युद्धे सत्यपराक्रमान्। असंख्येयाननिर्देशान् परं पारमिवोदधेः
पर्वतेषु च ये केचिद् विषयेषु नदीषु च। एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः
एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः। पर्जन्य इव जीमूतैः समन्तात् परिवारितः
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्। सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः
यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्। भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे
स एष जाम्बवान् नाम महायूथपयूथपः। प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः
एतेन साह्यं तु महत् कृतं शक्रस्य धीमता। दैवासुरे जाम्बवता लब्धाश्च बहवो वराः
आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः। मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च
राक्षसानां च सदृशाः पिशाचानां च रोमशाः। एतस्य सैन्या बहवो विचरन्त्यमितौजसः
य एनमभिसंरब्धं प्लवमानमवस्थितम्। प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम्
एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः। बलेन बलसंयुक्तो दम्भो नामैष यूथपः
यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते। ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्
यस्मात् तु परमं रूपं चतुष्पात्सु न विद्यते। श्रुतः संनादनो नाम वानराणां पितामहः
येन युद्धं तदा दत्तं रणे शक्रस्य धीमता। पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः। एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना
तदा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्। यत्र वैश्रवणो राजा जम्बूमुपनिषेवते
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्। विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप
तत्रैष रमते श्रीमान् बलवान् वानरोत्तमः। युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः
वृतः कोटिसहस्रेण हरीणां समवस्थितः। एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्