यूथपानां सहस्राणां शतेन परिवारितः। यस्य घोषेण महता सप्राकारा सतोरणा
लङ्का प्रतिहता सर्वा सशैलवनकानना। सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः। बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्
लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते। गिरिशृङ्गप्रतीकाशः पद्मकिंजल्कसंनिभः
स्फोटयत्यतिसंरब्धो लाङ्गूलं च पुनः पुनः। यस्य लाङ्गूलशब्देन स्वनन्ति प्रदिशो दश
एष वानरराजेन सुग्रीवेणाभिषेचितः। युवराजोऽङ्गदो नाम त्वामाह्वयति संयुगे
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः। राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा
एतस्य सा मतिः सर्वा यद् दृष्टा जनकात्मजा। हनूमता वेगवता राघवस्य हितैषिणा
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान्। परिगृह्याभियाति त्वां स्वेनानीकेन मर्दितुम्
अनुवालिसुतस्यापि बलेन महता वृतः। वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च। उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः। अष्टौ शतसहस्राणि दशकोटिशतानि च। य एनमनुगच्छन्ति वीराश्चन्दनवासिनः
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्। श्वेतो रजतसंकाशश्चपलो भीमविक्रमः
बुद्धिमान् वानरः शूरस्त्रिषु लोकेषु विश्रुतः। तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः
नाम्ना संरोचनो नाम नानानगयुतो गिरिः। तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः
योऽसौ शतसहस्राणि सहर्षं परिकर्षति। यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरदर्शनाः। अदीनो वानरश्चण्डः संग्राममभिकाङ्क्षति। एषोऽप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम्
यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः। निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्। राजन् सततमध्यास्ते स रम्भो नाम यूथपः। शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः
यं यान्तं वानरा घोराश्चण्डाश्चण्डपराक्रमाः। परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा
यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः। न तु संविजते मृत्योर्न च सेनां प्रधावति
प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते। पश्य लाङ्गूलविक्षेपं क्ष्वेडत्येष महाबलः
महाजवो वीतभयो रम्यं साल्वेयपर्वतम्। राजन् सततमध्यास्ते शरभो नाम यूथपः
एतस्य बलिनः सर्वे विहारा नाम यूथपाः। राजन् शतसहस्राणि चत्वारिंशत्तथैव च
यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति। मध्ये वानरवीराणां सुराणामिव वासवः
भेरीणामिव संनादो यस्यैष श्रूयते महान्। घोषः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम्
एष पर्वतमध्यास्ते पारियात्रमनुत्तमम्। युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः
एनं शतसहस्राणां शतार्धं पर्युपासते। यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः
यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्। स्थितां तीरे समुद्रस्य द्वितीय इव सागरः
एष दर्दुरसंकाशो विनतो नाम यूथपः। पिबंश्चरति यो वेणां नदीनामुत्तमां नदीम्