यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः। नैव सीतामहं दद्यां सर्वलोकभयादपि
त्वं तु सौम्य परित्रस्तो हरिभिः पीडितो भृशम्। प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे
को हि नाम सपत्नो मां समरे जेतुमर्हति। इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः
आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम्। बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्च्छितः। पश्यमानः समुद्रं तं पर्वतांश्च वनानि च
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवंगमैः। तदपारमसह्यं च वानराणां महाबलम्
आलोक्य रावणो राजा परिपप्रच्छ सारणम्। एषां के वानरा मुख्याः के शूराः के महाबलाः
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः। केषां शृणोति सुग्रीवः के वा यूथपयूथपाः
सारणाचक्ष्व मे सर्वं किंप्रभावाः प्लवंगमाः। सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः
आबभाषेऽथ मुख्यज्ञो मुख्यांस्तत्र वनौकसः। एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः
यूथपानां सहस्राणां शतेन परिवारितः। यस्य घोषेण महता सप्राकारा सतोरणा
लङ्का प्रतिहता सर्वा सशैलवनकानना। सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः। बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्
लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते। गिरिशृङ्गप्रतीकाशः पद्मकिंजल्कसंनिभः
स्फोटयत्यतिसंरब्धो लाङ्गूलं च पुनः पुनः। यस्य लाङ्गूलशब्देन स्वनन्ति प्रदिशो दश
एष वानरराजेन सुग्रीवेणाभिषेचितः। युवराजोऽङ्गदो नाम त्वामाह्वयति संयुगे
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः। राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा
एतस्य सा मतिः सर्वा यद् दृष्टा जनकात्मजा। हनूमता वेगवता राघवस्य हितैषिणा
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान्। परिगृह्याभियाति त्वां स्वेनानीकेन मर्दितुम्
अनुवालिसुतस्यापि बलेन महता वृतः। वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः
ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च। उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः। अष्टौ शतसहस्राणि दशकोटिशतानि च। य एनमनुगच्छन्ति वीराश्चन्दनवासिनः
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्। श्वेतो रजतसंकाशश्चपलो भीमविक्रमः
बुद्धिमान् वानरः शूरस्त्रिषु लोकेषु विश्रुतः। तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः
नाम्ना संरोचनो नाम नानानगयुतो गिरिः। तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः
योऽसौ शतसहस्राणि सहर्षं परिकर्षति। यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरदर्शनाः। अदीनो वानरश्चण्डः संग्राममभिकाङ्क्षति। एषोऽप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम्
यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः। निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्। राजन् सततमध्यास्ते स रम्भो नाम यूथपः। शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः
यं यान्तं वानरा घोराश्चण्डाश्चण्डपराक्रमाः। परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा