इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ। जयेति प्रतिनन्द्यैनं राघवं धर्मवत्सलम्
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्। विभीषणगृहीतौ तु वधार्थं राक्षसेश्वर
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा। एकस्थानगता यत्र चत्वारः पुरुषर्षभाः
लोकपालसमाः शूराः कृतास्त्रा दृढविक्रमाः। रामो दाशरथिः श्रीमाल्ँलक्ष्मणश्च विभीषणः
सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः। एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्
उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः। यादृशं तद्धि रामस्य रूपं प्रहरणानि च
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः। रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी। बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः
प्रहृष्टयोधा ध्वजिनी महात्मनां वनौकसां सम्प्रति योद्धुमिच्छताम्। अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली
thumb|षड्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशः सर्गः ॥६-
तद्वचः सत्यमक्लीबं सारणेनाभिभाषितम्। निशम्य रावणो राजा प्रत्यभाषत सारणम्
यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः। नैव सीतामहं दद्यां सर्वलोकभयादपि
त्वं तु सौम्य परित्रस्तो हरिभिः पीडितो भृशम्। प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे
को हि नाम सपत्नो मां समरे जेतुमर्हति। इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः
आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम्। बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्च्छितः। पश्यमानः समुद्रं तं पर्वतांश्च वनानि च
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवंगमैः। तदपारमसह्यं च वानराणां महाबलम्
आलोक्य रावणो राजा परिपप्रच्छ सारणम्। एषां के वानरा मुख्याः के शूराः के महाबलाः
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः। केषां शृणोति सुग्रीवः के वा यूथपयूथपाः
सारणाचक्ष्व मे सर्वं किंप्रभावाः प्लवंगमाः। सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः
आबभाषेऽथ मुख्यज्ञो मुख्यांस्तत्र वनौकसः। एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः
यूथपानां सहस्राणां शतेन परिवारितः। यस्य घोषेण महता सप्राकारा सतोरणा
लङ्का प्रतिहता सर्वा सशैलवनकानना। सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः। बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्
लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते। गिरिशृङ्गप्रतीकाशः पद्मकिंजल्कसंनिभः
स्फोटयत्यतिसंरब्धो लाङ्गूलं च पुनः पुनः। यस्य लाङ्गूलशब्देन स्वनन्ति प्रदिशो दश
एष वानरराजेन सुग्रीवेणाभिषेचितः। युवराजोऽङ्गदो नाम त्वामाह्वयति संयुगे
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः। राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा
एतस्य सा मतिः सर्वा यद् दृष्टा जनकात्मजा। हनूमता वेगवता राघवस्य हितैषिणा
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान्। परिगृह्याभियाति त्वां स्वेनानीकेन मर्दितुम्
अनुवालिसुतस्यापि बलेन महता वृतः। वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः