तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तथा। कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः
आवामिहागतौ सौम्य रावणप्रहितावुभौ। परिज्ञातुं बलं सर्वं तदिदं रघुनन्दन
तयोस्तद् वचनं श्रुत्वा रामो दशरथात्मजः। अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः
यदि दृष्टं बलं सर्वं वयं वा सुसमाहिताः। यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्
अथ किंचिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः। विभीषणो वा कात्स्र्न्येन पुनः संदर्शयिष्यति
न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति। न्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हथः
प्रच्छन्नौ च विमुञ्चेमौ चारौ रात्रिंचरावुभौ। शत्रुपक्षस्य सततं विभीषण विकर्षिणौ
प्रविश्य महतीं लङ्कां भवद्भ्यां धनदानुजः। वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम
यद् बलं त्वं समाश्रित्य सीतां मे हृतवानसि। तद् दर्शय यथाकामं ससैन्यश्च सबान्धवः
श्वः काल्ये नगरीं लङ्कां सप्राकारां सतोरणाम्। रक्षसां च बलं पश्य शरैर्विध्वंसितं मया
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ। जयेति प्रतिनन्द्यैनं राघवं धर्मवत्सलम्
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्। विभीषणगृहीतौ तु वधार्थं राक्षसेश्वर
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा। एकस्थानगता यत्र चत्वारः पुरुषर्षभाः
लोकपालसमाः शूराः कृतास्त्रा दृढविक्रमाः। रामो दाशरथिः श्रीमाल्ँलक्ष्मणश्च विभीषणः
सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः। एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्
उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः। यादृशं तद्धि रामस्य रूपं प्रहरणानि च
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः। रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी। बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः
प्रहृष्टयोधा ध्वजिनी महात्मनां वनौकसां सम्प्रति योद्धुमिच्छताम्। अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली
thumb|षड्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षड्विंशः सर्गः ॥६-
तद्वचः सत्यमक्लीबं सारणेनाभिभाषितम्। निशम्य रावणो राजा प्रत्यभाषत सारणम्
यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः। नैव सीतामहं दद्यां सर्वलोकभयादपि
त्वं तु सौम्य परित्रस्तो हरिभिः पीडितो भृशम्। प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे
को हि नाम सपत्नो मां समरे जेतुमर्हति। इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः
आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम्। बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्च्छितः। पश्यमानः समुद्रं तं पर्वतांश्च वनानि च
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवंगमैः। तदपारमसह्यं च वानराणां महाबलम्
आलोक्य रावणो राजा परिपप्रच्छ सारणम्। एषां के वानरा मुख्याः के शूराः के महाबलाः
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः। केषां शृणोति सुग्रीवः के वा यूथपयूथपाः
सारणाचक्ष्व मे सर्वं किंप्रभावाः प्लवंगमाः। सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः
आबभाषेऽथ मुख्यज्ञो मुख्यांस्तत्र वनौकसः। एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः