सागरस्येव मे वेगो मारुतस्येव मे बलम्। न च दाशरथिर्वेद तेन मां योद्धुमिच्छति
न मे तूणीशयान् बाणान् सविषानिव पन्नगान्। रामः पश्यति संग्रामे तेन मां योद्धुमिच्छति
न जानाति पुरा वीर्यं मम युद्धे स राघवः। मम चापमयीं वीणां शरकोणैः प्रवादिताम्
ज्याशब्दतुमुलां घोरामार्तगीतमहास्वनाम्। नाराचतलसंनादां नदीमहितवाहिनीम्। अवगाह्य महारङ्गं वादयिष्याम्यहं रणे
न वासवेनापि सहस्रचक्षुषा युद्धेऽस्मि शक्यो वरुणेन वा स्वयम्। यमेन वा धर्षयितुं शराग्निना महाहवे वैश्रवणेन वा पुनः
thumb|पञ्चविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चविंशः सर्गः ॥६-
सबले सागरं तीर्णे रामे दशरथात्मजे। अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्। अभूतपूर्वं रामेण सागरे सेतुबन्धनम्
सागरे सेतुबन्धं तं न श्रद्दध्यां कथंचन। अवश्यं चापि संख्येयं तन्मया वानरं बलम्
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ। परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः
मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः। ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे। निवेशं च यथा तेषां वानराणां महात्मनाम्
रामस्य व्यवसायं च वीर्यं प्रहरणानि च। लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथः
कश्च सेनापतिस्तेषां वानराणां महात्मनाम्। तच्च ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ। हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्
ततस्तद् वानरं सैन्यमचिन्त्यं लोमहर्षणम्। संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ
तत् स्थितं पर्वताग्रेषु निर्झरेषु गुहासु च। समुद्रस्य च तीरेषु वनेषूपवनेषु च। तरमाणं च तीर्णं च तर्तुकामं च सर्वशः
निविष्टं निविशच्चैव भीमनादं महाबलम्। तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ
तौ ददर्श महातेजाः प्रतिच्छन्नौ विभीषणः। आचचक्षे स रामाय गृहीत्वा शुकसारणौ
तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ। लङ्कायाः समनुप्राप्तौ चारौ परपुरंजय
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तथा। कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः
आवामिहागतौ सौम्य रावणप्रहितावुभौ। परिज्ञातुं बलं सर्वं तदिदं रघुनन्दन
तयोस्तद् वचनं श्रुत्वा रामो दशरथात्मजः। अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः
यदि दृष्टं बलं सर्वं वयं वा सुसमाहिताः। यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्
अथ किंचिददृष्टं वा भूयस्तद् द्रष्टुमर्हथः। विभीषणो वा कात्स्र्न्येन पुनः संदर्शयिष्यति
न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति। न्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हथः
प्रच्छन्नौ च विमुञ्चेमौ चारौ रात्रिंचरावुभौ। शत्रुपक्षस्य सततं विभीषण विकर्षिणौ
प्रविश्य महतीं लङ्कां भवद्भ्यां धनदानुजः। वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम
यद् बलं त्वं समाश्रित्य सीतां मे हृतवानसि। तद् दर्शय यथाकामं ससैन्यश्च सबान्धवः
श्वः काल्ये नगरीं लङ्कां सप्राकारां सतोरणाम्। रक्षसां च बलं पश्य शरैर्विध्वंसितं मया