प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान्। आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा। इति स्म दधिरे सर्वे मनांसि हरिपुङ्गवाः
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत्। सुविभक्तानि सैन्यानि शुक एष विमुच्यताम्
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः। मोचयामास तं दूतं शुकं रामस्य शासनात्
रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह। किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे
कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः। ततः स भयसंविग्नस्तेन राज्ञाभिचोदितः। वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम्
सागरस्योत्तरे तीरेऽब्रुवं ते वचनं तथा। यथा संदेशमक्लिष्टं सान्त्वयन् श्लक्ष्णया गिरा
क्रुद्धैस्तैरहमुत्प्लुत्य दृष्टमात्रः प्लवंगमैः। गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः
न ते संभाषितुं शक्याः सम्प्रश्नोऽत्र न विद्यते। प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप
स च हन्ता विराधस्य कबन्धस्य खरस्य च। सुग्रीवसहितो रामः सीतायाः पदमागतः
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम्। एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः
ऋक्षवानरसङ्घानामनीकानि सहस्रशः। गिरिमेघनिकाशानां छादयन्ति वसुंधराम्
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च। नैतयोर्विद्यते संधिर्देवदानवयोरिव
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु। सीतां चास्मै प्रयच्छाशु युद्धं वापि प्रदीयताम्
शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत्। रोषसंरक्तनयनो निर्दहन्निव चक्षुषा
यदि मां प्रति युद्धेरन् देवगन्धर्वदानवाः। नैव सीतां प्रदास्यामि सर्वलोकभयादपि
कदा समभिधावन्त मामका राघवं शराः। वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम्
कदा शोणितदिग्धाङ्गं दीप्तैः कार्मुकविच्युतैः। शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम्
तच्चास्य बलमादास्ये बलेन महता वृतः। ज्योतिषामिव सर्वेषां प्रभामुद्यन् दिवाकरः
सागरस्येव मे वेगो मारुतस्येव मे बलम्। न च दाशरथिर्वेद तेन मां योद्धुमिच्छति
न मे तूणीशयान् बाणान् सविषानिव पन्नगान्। रामः पश्यति संग्रामे तेन मां योद्धुमिच्छति
न जानाति पुरा वीर्यं मम युद्धे स राघवः। मम चापमयीं वीणां शरकोणैः प्रवादिताम्
ज्याशब्दतुमुलां घोरामार्तगीतमहास्वनाम्। नाराचतलसंनादां नदीमहितवाहिनीम्। अवगाह्य महारङ्गं वादयिष्याम्यहं रणे
न वासवेनापि सहस्रचक्षुषा युद्धेऽस्मि शक्यो वरुणेन वा स्वयम्। यमेन वा धर्षयितुं शराग्निना महाहवे वैश्रवणेन वा पुनः
thumb|पञ्चविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चविंशः सर्गः ॥६-
सबले सागरं तीर्णे रामे दशरथात्मजे। अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्। अभूतपूर्वं रामेण सागरे सेतुबन्धनम्
सागरे सेतुबन्धं तं न श्रद्दध्यां कथंचन। अवश्यं चापि संख्येयं तन्मया वानरं बलम्
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ। परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः
मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः। ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः