राघवस्य प्रियार्थं तु सुतरां वीर्यशालिनाम्। हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः
thumb|चतुर्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्विंशः सर्गः ॥६-
सा वीरसमिती राज्ञा विरराज व्यवस्थिता। शशिना शुभनक्षत्रा पौर्णमासीव शारदी
प्रचचाल च वेगेन त्रस्ता चैव वसुंधरा। पीड्यमाना बलौघेन तेन सागरवर्चसा
ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः। भेरीमृदङ्गसंघुष्टं तुमुलं लोमहर्षणम्
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः। अमृष्यमाणास्तद् घोषं विनेदुर्घोषवत्तरम्
राक्षसास्तत् प्लवंगानां शुश्रुवुस्तेऽपि गर्जितम्। नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम्
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्। जगाम मनसा सीतां दूूयमानेन चेतसा
अत्र सा मृगशावाक्षी रावणेनोपरुध्यते। अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी
दीर्घमुष्णं च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम्। उवाच वचनं वीरस्तत्कालहितमात्मनः
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण। मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा
विमानैर्बहुभिर्लङ्का संकीर्णा रचिता पुरा। विष्णोः पदमिवाकाशं छादितं पाण्डुभिर्घनैः
पुष्पितैः शोभिता लङ्का वनैश्चित्ररथोपमैः। नानापतगसंघुष्टफलपुष्पोपगैः शुभैः
पश्य मत्तविहंगानि प्रलीनभ्रमराणि च। कोकिलाकुलखण्डानि दोधवीति शिवोऽनिलः
इति दाशरथी रामो लक्ष्मणं समभाषत। बलं च तत्र विभजच्छास्त्रदृष्टेन कर्मणा
शशास कपिसेनां तां बलादादाय वीर्यवान्। अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः
तिष्ठेद् वानरवाहिन्या वानरौघसमावृतः। आश्रितो दक्षिणं पार्श्वमृषभो नाम वानरः
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः। तिष्ठेद् वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः
मूर्ध्नि स्थास्याम्यहं यत्तो लक्ष्मणेन समन्वितः। जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः
ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः। जघनं कपिसेनायाः कपिराजोऽभिरक्षतु। पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः
सुविभक्तमहाव्यूहा महावानररक्षिता। अनीकिनी सा विबभौ यथा द्यौः साभ्रसम्प्लवा
प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान्। आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा। इति स्म दधिरे सर्वे मनांसि हरिपुङ्गवाः
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत्। सुविभक्तानि सैन्यानि शुक एष विमुच्यताम्
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः। मोचयामास तं दूतं शुकं रामस्य शासनात्
रावणः प्रहसन्नेव शुकं वाक्यमुवाच ह। किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे
कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः। ततः स भयसंविग्नस्तेन राज्ञाभिचोदितः। वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम्
सागरस्योत्तरे तीरेऽब्रुवं ते वचनं तथा। यथा संदेशमक्लिष्टं सान्त्वयन् श्लक्ष्णया गिरा
क्रुद्धैस्तैरहमुत्प्लुत्य दृष्टमात्रः प्लवंगमैः। गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः
न ते संभाषितुं शक्याः सम्प्रश्नोऽत्र न विद्यते। प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप