रक्तचन्दनसंकाशा संध्या परमदारुणा। ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम्
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः। प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम्
रजन्यामप्रकाशस्तु संतापयति चन्द्रमाः। कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः। आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते
रजसा महता चापि नक्षत्राणि हतानि च। युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च। शिवाश्चाप्यशुभान् नादान् नदन्ति सुमहाभयान्
शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः। भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा
क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम्। अभियाम जवेनैव सर्वैर्हरिभिरावृताः
इत्येवमुक्त्वा धन्वी स रामः संग्रामधर्षणः। प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः
सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः। प्रतस्थिरे विनर्दन्तो धृतानां द्विषतां वधे
राघवस्य प्रियार्थं तु सुतरां वीर्यशालिनाम्। हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः
thumb|चतुर्विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्विंशः सर्गः ॥६-
सा वीरसमिती राज्ञा विरराज व्यवस्थिता। शशिना शुभनक्षत्रा पौर्णमासीव शारदी
प्रचचाल च वेगेन त्रस्ता चैव वसुंधरा। पीड्यमाना बलौघेन तेन सागरवर्चसा
ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः। भेरीमृदङ्गसंघुष्टं तुमुलं लोमहर्षणम्
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः। अमृष्यमाणास्तद् घोषं विनेदुर्घोषवत्तरम्
राक्षसास्तत् प्लवंगानां शुश्रुवुस्तेऽपि गर्जितम्। नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम्
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्। जगाम मनसा सीतां दूूयमानेन चेतसा
अत्र सा मृगशावाक्षी रावणेनोपरुध्यते। अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी
दीर्घमुष्णं च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम्। उवाच वचनं वीरस्तत्कालहितमात्मनः
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण। मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा
विमानैर्बहुभिर्लङ्का संकीर्णा रचिता पुरा। विष्णोः पदमिवाकाशं छादितं पाण्डुभिर्घनैः
पुष्पितैः शोभिता लङ्का वनैश्चित्ररथोपमैः। नानापतगसंघुष्टफलपुष्पोपगैः शुभैः
पश्य मत्तविहंगानि प्रलीनभ्रमराणि च। कोकिलाकुलखण्डानि दोधवीति शिवोऽनिलः
इति दाशरथी रामो लक्ष्मणं समभाषत। बलं च तत्र विभजच्छास्त्रदृष्टेन कर्मणा
शशास कपिसेनां तां बलादादाय वीर्यवान्। अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः
तिष्ठेद् वानरवाहिन्या वानरौघसमावृतः। आश्रितो दक्षिणं पार्श्वमृषभो नाम वानरः
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः। तिष्ठेद् वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः
मूर्ध्नि स्थास्याम्यहं यत्तो लक्ष्मणेन समन्वितः। जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः
ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः। जघनं कपिसेनायाः कपिराजोऽभिरक्षतु। पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः