पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि च। दृश्यन्ते परिधावन्तो गृह्य दानवसंनिभाः
शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्। बभूव तुमुलः शब्दस्तदा तस्मिन् महोदधौ
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश। प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः
द्वितीयेन तथैवाह्ना योजनानि तु विंशतिः। कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः
अह्ना तृतीयेन तथा योजनानि तु सागरे। त्वरमाणैर्महाकायैरेकविंशतिरेव च
चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि वा। योजनानि महावेगैः कृतानि त्वरितैस्ततः
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः। योजनानि त्रयोविंशत् सुवेलमधिकृत्य वै
स वानरवरः श्रीमान् विश्वकर्मात्मजो बली। बबन्ध सागरे सेतुं यथा चास्य पिता तथा
स नलेन कृतः सेतुः सागरे मकरालये। शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम्
दशयोजनविस्तीर्णं शतयोजनमायतम्। ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम्
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः। तमचिन्त्यमसह्यं च ह्यद्भुतं लोमहर्षणम्
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्। तानि कोटिसहस्राणि वानराणां महौजसाम्
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः। विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः
अशोभत महान् सेतुः सीमन्त इव सागरे। ततः पारे समुद्रस्य गदापाणिर्विभीषणः
परेषामभिघातार्थमतिष्ठत् सचिवैः सह। सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम्
हनूमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः। अयं हि विपुलो वीर सागरो मकरालयः
वैहायसौ युवामेतौ वानरौ धारयिष्यतः। अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः
जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः। अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः
सलिलं प्रपतन्त्यन्ये मार्गमन्ये प्रपेदिरे। केचिद् वैहायसगताः सुपर्णा इव पुप्लुवुः
घोषेण महता घोषं सागरस्य समुच्छ्रितम्। भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी
वानराणां हि सा तीर्णा वाहिनी नलसेतुना। तीरे निविविशे राज्ञो बहुमूलफलोदके
तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः। उपेत्य रामं सहसा महर्षिभि- स्तमभ्यषिञ्चन् सुशुभैर्जलैः पृथक्
जयस्व शत्रून् नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः। इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन्
thumb|त्रयोविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोविंशः सर्गः ॥६-
निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः। सौमित्रिं सम्परिष्वज्य इदं वचनमब्रवीत्
परिगृह्योदकं शीतं वनानि फलवन्ति च। बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्। प्रबर्हणं प्रवीराणामृक्षवानररक्षसाम्
वाताश्च कलुषा वान्ति कम्पते च वसुंधरा। पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः। क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः