एष सेतुं महोत्साहः करोतु मयि वानरः। तमहं धारयिष्यामि यथा ह्येष पिता तथा
एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः। अब्रवीद् वानरश्रेष्ठो वाक्यं रामं महाबलम्
अहं सेतुं करिष्यामि विस्तीर्णे मकरालये। पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः
दण्ड एव वरो लोके पुरुषस्येति मे मतिः। धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा
अयं हि सागरो भीमः सेतुकर्मदिदृक्षया। ददौ दण्डभयाद् गाधं राघवाय महोदधिः
मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा। मया तु सदृशः पुत्रस्तव देवि भविष्यति
औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा। स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः। न चाप्यहमनुक्तो वः प्रब्रूयामात्मनो गुणान्
समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये। तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः
ततो विसृष्टा रामेण सर्वतो हरिपुङ्गवाः। उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः
ते नगान् नगसंकाशाः शाखामृगगणर्षभाः। बभञ्जुः पादपांस्तत्र प्रचकर्षुश्च सागरम्
ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः। कुटजैरर्जुनैस्तालैस्तिलकैस्तिनिशैरपि
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः। चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्
समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः। इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्वानरास्तरून्
तालान् दाडिमगुल्मांश्च नारिकेलविभीतकान्। करीरान् बकुलान् निम्बान् समाजह्रुरितस्ततः
हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः। पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च
प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धृतम्। समुत्ससर्प चाकाशमवासर्पत् ततः पुनः
समुद्रं क्षोभयामासुर्निपतन्तः समन्ततः। सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतं शतयोजनम्
नलश्चक्रे महासेतुं मध्ये नदनदीपतेः। स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः
दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे। वानरैः शतशस्तत्र रामस्याज्ञापुरःसरैः
मेघाभैः पर्वताभैश्च तृणैः काष्ठैर्बबन्धिरे। पुष्पिताग्रैश्च तरुभिः सेतुं बघ्नन्ति वानराः
पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि च। दृश्यन्ते परिधावन्तो गृह्य दानवसंनिभाः
शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्। बभूव तुमुलः शब्दस्तदा तस्मिन् महोदधौ
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश। प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः
द्वितीयेन तथैवाह्ना योजनानि तु विंशतिः। कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः
अह्ना तृतीयेन तथा योजनानि तु सागरे। त्वरमाणैर्महाकायैरेकविंशतिरेव च
चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि वा। योजनानि महावेगैः कृतानि त्वरितैस्ततः
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः। योजनानि त्रयोविंशत् सुवेलमधिकृत्य वै
स वानरवरः श्रीमान् विश्वकर्मात्मजो बली। बबन्ध सागरे सेतुं यथा चास्य पिता तथा
स नलेन कृतः सेतुः सागरे मकरालये। शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम्