विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा। शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितः
ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्। प्रत्युज्जगाम सहसा विनयेन समन्वितः
विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम्। प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः
पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्। स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः
यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत्। अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत
आसने भगवानास्तां सहैभिर्मुनिपुंगवैः। जनकस्य वचः श्रुत्वा निषसाद महामुनिः
पुरोधा ऋत्विजश्चैव राजा च सहमन्त्रिभिः। आसनेषु यथान्यायमुपविष्टाः समन्ततः
दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्। अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता
अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः
यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह। द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः
ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक। इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा
पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः। इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ
गजतुल्यगती वीरौ शार्दूलवृषभोपमौ। पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ। अश्विनाविव रूपेण समुपस्थितयौवनौ
यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ। कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने। भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्
परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः। काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः
तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः। न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ
सिद्धाश्रमनिवासं च राक्षसानां वधं तथा। तत्रागमनमव्यग्रं विशालायाश्च दर्शनम्
अहल्यादर्शनं चैव गौतमेन समागमम्। महाधनुषि जिज्ञासां कर्तुमागमनं तथा
एतत् सर्वं महातेजा जनकाय महात्मने। निवेद्य विररामाथ विश्वामित्रो महामुनिः
thumb|एकपञ्चाशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकपञ्चाशः सर्गः ॥१-
तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः। हृष्टरोमा महातेजाः शतानन्दो महातपाः
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः। रामसंदर्शनादेव परं विस्मयमागतः
एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ। सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्
अपि ते मुनिशार्दूल मम माता यशस्विनी। दर्शिता राजपुत्राय तपोदीर्घमुपागता
अपि रामे महातेजा मम माता यशस्विनी। वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम्
अपि रामाय कथितं यद् वृत्तं तत् पुरातनम्। मम मातुर्महातेजो देवेन दुरनुष्ठितम्
अपि कौशिक भद्रं ते गुरुणा मम संगता। मम माता मुनिश्रेष्ठ रामसंदर्शनादितः
अपि मे गुरुणा रामः पूजितः कुशिकात्मज। इहागतो महातेजाः पूजां प्राप्य महात्मनः
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज। इहागतेन रामेण पूजितेनाभिवादितः