तेन तन्मरुकान्तारं पृथिव्यां किल विश्रुतम्। निपातितः शरो यत्र वज्राशनिसमप्रभः
ननाद च तदा तत्र वसुधा शल्यपीडिता। तस्माद् व्रणमुखात् तोयमुत्पपात रसातलात्
स बभूव तदा कूपो व्रण इत्येव विश्रुतः। सततं चोत्थितं तोयं समुद्रस्येव दृश्यते
अवदारणशब्दश्च दारुणः समपद्यत। तस्मात् तद् बाणपातेन अपः कुक्षिष्वशोषयत्
विख्यातं त्रिषु लोकेषु मरुकान्तारमेव च। शोषयित्वा तु तं कुक्षिं रामो दशरथात्मजः
वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः
पशव्यश्चाल्परोगश्च फलमूलरसायुतः। बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः
एवमेतैश्च संयुक्तो बहुभिः संयुतो मरुः। रामस्य वरदानाच्च शिवः पन्था बभूव ह
तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरितां पतिः। राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत्
अयं सौम्य नलो नाम तनयो विश्वकर्मणः। पित्रा दत्तवरः श्रीमान् प्रीतिमान् विश्वकर्मणः
एष सेतुं महोत्साहः करोतु मयि वानरः। तमहं धारयिष्यामि यथा ह्येष पिता तथा
एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः। अब्रवीद् वानरश्रेष्ठो वाक्यं रामं महाबलम्
अहं सेतुं करिष्यामि विस्तीर्णे मकरालये। पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः
दण्ड एव वरो लोके पुरुषस्येति मे मतिः। धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा
अयं हि सागरो भीमः सेतुकर्मदिदृक्षया। ददौ दण्डभयाद् गाधं राघवाय महोदधिः
मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा। मया तु सदृशः पुत्रस्तव देवि भविष्यति
औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा। स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः। न चाप्यहमनुक्तो वः प्रब्रूयामात्मनो गुणान्
समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये। तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः
ततो विसृष्टा रामेण सर्वतो हरिपुङ्गवाः। उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः
ते नगान् नगसंकाशाः शाखामृगगणर्षभाः। बभञ्जुः पादपांस्तत्र प्रचकर्षुश्च सागरम्
ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः। कुटजैरर्जुनैस्तालैस्तिलकैस्तिनिशैरपि
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः। चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्
समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः। इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्वानरास्तरून्
तालान् दाडिमगुल्मांश्च नारिकेलविभीतकान्। करीरान् बकुलान् निम्बान् समाजह्रुरितस्ततः
हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः। पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च
प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धृतम्। समुत्ससर्प चाकाशमवासर्पत् ततः पुनः
समुद्रं क्षोभयामासुर्निपतन्तः समन्ततः। सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतं शतयोजनम्
नलश्चक्रे महासेतुं मध्ये नदनदीपतेः। स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः
दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे। वानरैः शतशस्तत्र रामस्याज्ञापुरःसरैः
मेघाभैः पर्वताभैश्च तृणैः काष्ठैर्बबन्धिरे। पुष्पिताग्रैश्च तरुभिः सेतुं बघ्नन्ति वानराः