ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम्। संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः
तस्मिन् विकृष्टे सहसा राघवेण शरासने। रोदसी सम्पफालेव पर्वताश्च चकम्पिरे
तमश्च लोकमावव्रे दिशश्च न चकाशिरे। प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तथा
तिर्यक् च सह नक्षत्रैः संगतौ चन्द्रभास्करौ। भास्करांशुभिरादीप्तं तमसा च समावृतम्
प्रचकाशे तदाऽऽकाशमुल्काशतविदीपितम्। अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः
वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्तयः। बभञ्ज च तदा वृक्षाञ्जलदानुद्वहन्मुहुः
आरुजंश्चैव शैलाग्रान् शिखराणि बभञ्ज च। दिवि च स्म महामेघाः संहताः समहास्वनाः
मुमुचुर्वैद्युतानग्नींस्ते महाशनयस्तदा। यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम्
अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम्। शिश्यिरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात्। सह भूतैः सतोयोर्मिः सनागः सहराक्षसः
सहसाभूत् ततो वेगाद् भीमवेगो महोदधिः। योजनं व्यतिचक्राम वेलामन्यत्र सम्प्लवात्
तं तथा समतिक्रान्तं नातिचक्राम राघवः। समुद्धतममित्रघ्नो रामो नदनदीपतिम्
ततो मध्यात् समुद्रस्य सागरः स्वयमुत्थितः। उदयाद्रिमहाशैलान्मेरोरिव दिवाकरः
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत। स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषणः
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः। सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम्
जातरूपमयैश्चैव तपनीयविभूषणैः। आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः
धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव। एकावलीमध्यगतं तरलं पाण्डरप्रभम्
गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः। उद्वर्तितमहाग्राहः सम्भ्रान्तोरगराक्षसः
देवतानां सुरूपाभिर्नानारूपाभिरीश्वरः। सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान्
अब्रवीत् प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्
पृथिवी वायुराकाशमापो ज्योतिश्च राघव। स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः
तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः। विकारस्तु भवेद् गाध एतत् ते प्रवदाम्यहम्
न कामान्न च लोभाद् वा न भयात् पार्थिवात्मज। ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन
विधास्ये येन गन्तासि विषहिष्येऽप्यहं तथा। न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति। हरीणां तरणे राम करिष्यामि यथा स्थलम्
तमब्रवीत् तदा रामः शृणु मे वरुणालय। अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम्
रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम्। महोदधिर्महातेजा राघवं वाक्यमब्रवीत्
उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतरो मम। द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान्
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः। आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम
तैर्न तत्स्पर्शनं पापं सहेयं पापकर्मभिः। अमोघः क्रियतां राम अयं तत्र शरोत्तमः
तस्य तद् वचनं श्रुत्वा सागरस्य महात्मनः। मुमोच तं शरं दीप्तं परं सागरदर्शनात्