अद्य युद्धेन महता समुद्रं परिशोषये। क्षमया हि समायुक्तं मामयं मकरालयः
चापमानय सौमित्रे शरांश्चाशीविषोपमान्। समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवंगमाः
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम्। वेलासु कृतमर्यादं सहस्रोर्मिसमाकुलम्
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्। महार्णवं क्षोभयिष्ये महादानवसंकुलम्
एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः। बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन्
सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत्। मुमोच विशिखानुग्रान् वज्रानिव शतक्रतुः
ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः। प्रविशन्ति समुद्रस्य जलं वित्रस्तपन्नगम्
तोयवेगः समुद्रस्य समीनमकरो महान्। स बभूव महाघोरः समारुतरवस्तथा
महोर्मिमालाविततः शङ्खशुक्तिसमावृतः। सधूमः परिवृत्तोर्मिः सहसासीन्महोदधिः
व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः। दानवाश्च महावीर्याः पातालतलवासिनः
ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तथा। विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः
आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः। उद्वर्तितमहाग्राहः सघोषो वरुणालयः
ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम्। सौमित्रिरुत्पत्य विनिःश्वसन्तं मामेति चोक्त्वा धनुराललम्बे
एतद्विनापि ह्युदधेस्तवाद्य सम्पत्स्यते वीरतमस्य कार्यम्। भवद्विधाः क्रोधवशं न यान्ति दीर्घं भवान् पश्यतु साधुवृत्तम्
अन्तर्हितैश्चापि तथान्तरिक्षे ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च। शब्दः कृतः कष्टमिति ब्रुवद्भि- र्मामेति चोक्त्वा महता स्वरेण
thumb|द्वाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वाविंशः सर्गः ॥६-
अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः। अद्य त्वां शोषयिष्यामि सपातालं महार्णव
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर। मया निहतसत्त्वस्य पांसुरुत्पद्यते महान्
मत्कार्मुकविसृष्टेन शरवर्षेण सागर। परं तीरं गमिष्यन्ति पद्भिरेव प्लवंगमाः
विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम्। दानवालय संतापं मत्तो नाम गमिष्यसि
ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम्। संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः
तस्मिन् विकृष्टे सहसा राघवेण शरासने। रोदसी सम्पफालेव पर्वताश्च चकम्पिरे
तमश्च लोकमावव्रे दिशश्च न चकाशिरे। प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तथा
तिर्यक् च सह नक्षत्रैः संगतौ चन्द्रभास्करौ। भास्करांशुभिरादीप्तं तमसा च समावृतम्
प्रचकाशे तदाऽऽकाशमुल्काशतविदीपितम्। अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः
वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्तयः। बभञ्ज च तदा वृक्षाञ्जलदानुद्वहन्मुहुः
आरुजंश्चैव शैलाग्रान् शिखराणि बभञ्ज च। दिवि च स्म महामेघाः संहताः समहास्वनाः
मुमुचुर्वैद्युतानग्नींस्ते महाशनयस्तदा। यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम्
अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम्। शिश्यिरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात्। सह भूतैः सतोयोर्मिः सनागः सहराक्षसः