तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले। नियमादप्रमत्तस्य निशास्तिस्रोऽभिजग्मतुः
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः। उपासत तदा रामः सागरं सरितां पतिम्
न च दर्शयते रूपं मन्दो रामस्य सागरः। प्रयतेनापि रामेण यथार्हमभिपूजितः
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः। समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम्
अवलेपः समुद्रस्य न दर्शयति यः स्वयम्। प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता
असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणाः। आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम्
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम्। न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः
प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूर्धनि। अद्य मद्बाणनिर्भग्नैर्मकरैर्मकरालयम्
निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः। भोगिनां पश्य भोगानि मया भिन्नानि लक्ष्मण
महाभोगानि मत्स्यानां करिणां च करानिह। सशङ्खशुक्तिकाजालं समीनमकरं तथा
अद्य युद्धेन महता समुद्रं परिशोषये। क्षमया हि समायुक्तं मामयं मकरालयः
चापमानय सौमित्रे शरांश्चाशीविषोपमान्। समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवंगमाः
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम्। वेलासु कृतमर्यादं सहस्रोर्मिसमाकुलम्
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्। महार्णवं क्षोभयिष्ये महादानवसंकुलम्
एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः। बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन्
सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत्। मुमोच विशिखानुग्रान् वज्रानिव शतक्रतुः
ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः। प्रविशन्ति समुद्रस्य जलं वित्रस्तपन्नगम्
तोयवेगः समुद्रस्य समीनमकरो महान्। स बभूव महाघोरः समारुतरवस्तथा
महोर्मिमालाविततः शङ्खशुक्तिसमावृतः। सधूमः परिवृत्तोर्मिः सहसासीन्महोदधिः
व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः। दानवाश्च महावीर्याः पातालतलवासिनः
ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तथा। विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः
आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः। उद्वर्तितमहाग्राहः सघोषो वरुणालयः
ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम्। सौमित्रिरुत्पत्य विनिःश्वसन्तं मामेति चोक्त्वा धनुराललम्बे
एतद्विनापि ह्युदधेस्तवाद्य सम्पत्स्यते वीरतमस्य कार्यम्। भवद्विधाः क्रोधवशं न यान्ति दीर्घं भवान् पश्यतु साधुवृत्तम्
अन्तर्हितैश्चापि तथान्तरिक्षे ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च। शब्दः कृतः कष्टमिति ब्रुवद्भि- र्मामेति चोक्त्वा महता स्वरेण
thumb|द्वाविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वाविंशः सर्गः ॥६-
अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः। अद्य त्वां शोषयिष्यामि सपातालं महार्णव
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर। मया निहतसत्त्वस्य पांसुरुत्पद्यते महान्
मत्कार्मुकविसृष्टेन शरवर्षेण सागर। परं तीरं गमिष्यन्ति पद्भिरेव प्लवंगमाः
विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम्। दानवालय संतापं मत्तो नाम गमिष्यसि