स गत्वा दूरमध्वानमुपर्युपरि सागरम्। संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत्
सर्वमुक्तं यथाऽऽदिष्टं रावणेन दुरात्मना। तत् प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः
प्रापद्यन्त तदा क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः। सर्वैः प्लवंगैः प्रसभं निगृहीतो निशाचरः
गगनाद् भूतले चाशु प्रतिगृह्यावतारितः। वानरैः पीड्यमानस्तु शुको वचनमब्रवीत्
न दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः। यस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रधारयेत्। अनुक्तवादी दूतः सन् स दूतो वधमर्हति
शुकस्य वचनं रामः श्रुत्वा तु परिदेवितम्। उवाच मावधिष्टेति घ्नतः शाखामृगर्षभान्
सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम। किं मया खलु वक्तव्यो रावणो लोकरावणः
स एवमुक्तः प्लवगाधिपस्तदा प्लवंगमानामृषभो महाबलः। उवाच वाक्यं रजनीचरस्य चारं शुकं शुद्धमदीनसत्त्वः
न मेऽसि मित्रं न तथानुकम्प्यो न चोपकर्तासि न मे प्रियोऽसि। अरिश्च रामस्य सहानुबन्ध- स्ततोऽसि वालीव वधार्ह वध्यः
निहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश। लङ्कां च सर्वां महता बलेन सर्वैः करिष्यामि समेत्य भस्म
न मोक्ष्यसे रावण राघवस्य सुरैः सहेन्द्रैरपि मूढ गुप्तः। अन्तर्हितः सूर्यपथं गतोऽपि तथैव पातालमनुप्रविष्टः। गिरीशपादाम्बुजसंगतो वा हतोऽसि रामेण सहानुजस्त्वम्
तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम्। त्रातारं नानुपश्यामि न गन्धर्वं न चासुरम्
अवधीस्त्वं जरावृद्धं गृध्रराजं जटायुषम्। किं नु ते रामसांनिध्ये सकाशे लक्ष्मणस्य च। हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे
महाबलं महात्मानं दुराधर्षं सुरैरपि। न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति
ततोऽब्रवीद् वालिसुतोऽप्यङ्गदो हरिसत्तमः। नायं दूतो महाराज चारकः प्रतिभाति मे
तुलितं हि बलं सर्वमनेन तव तिष्ठता। गृह्यतां मागमल्लङ्कामेतद्धि मम रोचते
ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः। जगृहुश्च बबन्धुश्च विलपन्तमनाथवत्
शुकस्तु वानरैश्चण्डैस्तत्र तैः सम्प्रपीडितः। व्याचुक्रोश महात्मानं रामं दशरथात्मजम्। लुप्येते मे बलात् पक्षौ भिद्येते मे तथाक्षिणी
यां च रात्रिं मरिष्यामि जाये रात्रिं च यामहम्। एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम्। सर्वं तदुपपद्येथा जह्यां चेद् यदि जीवितम्
नाघातयत् तदा रामः श्रुत्वा तत्परिदेवितम्। वानरानब्रवीद् रामो मुच्यतां दूत आगतः
thumb|एकविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकविंशः सर्गः ॥६-
ततः सागरवेलायां दर्भानास्तीर्य राघवः। अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः
बाहुं भुजङ्गभोगाभमुपधायारिसूदनः। जातरूपमयैश्चैव भूषणैर्भूषितं पुरा
मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः। भुजैः परमनारीणामभिमृष्टमनेकधा
चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम्। बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम्
शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा। तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम्
संयुगे युगसंकाशं शत्रूणां शोकवर्धनम्। सुहृदां नन्दनं दीर्घं सागरान्तव्यपाश्रयम्
अस्यता च पुनः सव्यं ज्याघातविहतत्वचम्। दक्षिणो दक्षिणं बाहुं महापरिघसंनिभम्
गोसहस्रप्रदातारं ह्युपधाय भुजं महत्। अद्य मे तरणं वाथ मरणं सागरस्य वा
इति रामो धृतिं कृत्वा महाबाहुर्महोदधिम्। अधिशिष्ये च विधिवत् प्रयतो नियतो मुनिः