एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद् विभीषणम्। मध्ये वानरमुख्यानां राजानं राजशासनात्
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः। प्रचुक्रुशुर्महात्मानं साधुसाध्विति चाब्रुवन्
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्। कथं सागरमक्षोभ्यं तराम वरुणालयम्। सैन्यैः परिवृताः सर्वे वानराणां महौजसाम्
उपायैरभिगच्छाम यथा नदनदीपतिम्। तराम तरसा सर्वे ससैन्या वरुणालयम्
एवमुक्तस्तु धर्मात्मा प्रत्युवाच विभीषणः। समुद्रं राघवो राजा शरणं गन्तुमर्हति
खानितः सगरेणायमप्रमेयो महोदधिः। कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता। आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः
ततश्चाख्यातुमारेभे विभीषणवचः शुभम्। सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम्
प्रकृत्या धर्मशीलस्य रामस्यास्याप्यरोचत। सलक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्
सत्क्रियार्थं क्रियादक्षं स्मितपूर्वमभाषत। विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः। उभाभ्यां सम्प्रधार्यार्थं रोचते यत् तदुच्यताम्
एवमुक्तौ ततो वीरावुभौ सुग्रीवलक्ष्मणौ। समुदाचारसंयुक्तमिदं वचनमूचतुः
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव। विभीषणेन यत् तूक्तमस्मिन् काले सुखावहम्
अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये। लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः। अलं कालात्ययं कृत्वा सागरोऽयं नियुज्यताम्। यथा सैन्येन गच्छाम पुरीं रावणपालिताम्
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः। संविवेश तदा रामो वेद्यामिव हुताशनः
thumb|विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे विंशः सर्गः ॥६-
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्। ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान्
चारो राक्षसराजस्य रावणस्य दुरात्मनः। तां दृष्ट्वा सर्वतोऽव्यग्रां प्रतिगम्य स राक्षसः
आविश्य लङ्कां वेगेन राजानमिदमब्रवीत्। एष वै वानरर्क्षौघो लङ्कां समभिवर्तते
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः। पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ
उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ। एतौ सागरमासाद्य संनिविष्टौ महाद्युते
बलं चाकाशमावृत्य सर्वतो दशयोजनम्। तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि
तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम्। उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम्
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः। उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः। शुकं साधु तदा रक्षो वाक्यमर्थविदां वरम्
सुग्रीवं ब्रूहि गत्वाऽऽशु राजानं वचनान्मम। यथासंदेशमक्लीबं श्लक्ष्णया परया गिरा
त्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजःसुतश्च। न कश्चनार्थस्तव नास्त्यनर्थ- स्तथापि मे भ्रातृसमो हरीश
अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः। किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम्
नहीयं हरिभिर्लङ्का प्राप्तुं शक्या कथंचन। देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः
स तदा राक्षसेन्द्रेण संदिष्टो रजनीचरः। शुको विहंगमो भूत्वा तूर्णमाप्लुत्य चाम्बरम्