दशकोटिसहस्राणि रक्षसां कामरूपिणाम्। मांसशोणितभक्ष्याणां लङ्कापुरनिवासिनाम्
स तैस्तु सहितो राजा लोकपालानयोधयत्। सह देवैस्तु ते भग्ना रावणेन दुरात्मना
विभीषणस्य तु वचस्तच्छ्रुत्वा रघुसत्तमः। अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत्
यानि कर्मापदानानि रावणस्य विभीषण। आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम्
रसातलं वा प्रविशेत् पातालं वापि रावणः। पितामहसकाशं वा न मे जीवन् विमोक्ष्यते
अहत्वा रावणं संख्ये सपुत्रजनबान्धवम्। अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः। शिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवं प्रचक्रमे
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे। करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्। अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्। राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद
एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद् विभीषणम्। मध्ये वानरमुख्यानां राजानं राजशासनात्
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः। प्रचुक्रुशुर्महात्मानं साधुसाध्विति चाब्रुवन्
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्। कथं सागरमक्षोभ्यं तराम वरुणालयम्। सैन्यैः परिवृताः सर्वे वानराणां महौजसाम्
उपायैरभिगच्छाम यथा नदनदीपतिम्। तराम तरसा सर्वे ससैन्या वरुणालयम्
एवमुक्तस्तु धर्मात्मा प्रत्युवाच विभीषणः। समुद्रं राघवो राजा शरणं गन्तुमर्हति
खानितः सगरेणायमप्रमेयो महोदधिः। कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता। आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः
ततश्चाख्यातुमारेभे विभीषणवचः शुभम्। सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम्
प्रकृत्या धर्मशीलस्य रामस्यास्याप्यरोचत। सलक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्
सत्क्रियार्थं क्रियादक्षं स्मितपूर्वमभाषत। विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः। उभाभ्यां सम्प्रधार्यार्थं रोचते यत् तदुच्यताम्
एवमुक्तौ ततो वीरावुभौ सुग्रीवलक्ष्मणौ। समुदाचारसंयुक्तमिदं वचनमूचतुः
किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव। विभीषणेन यत् तूक्तमस्मिन् काले सुखावहम्
अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये। लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः। अलं कालात्ययं कृत्वा सागरोऽयं नियुज्यताम्। यथा सैन्येन गच्छाम पुरीं रावणपालिताम्
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः। संविवेश तदा रामो वेद्यामिव हुताशनः
thumb|विंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे विंशः सर्गः ॥६-
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्। ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान्
चारो राक्षसराजस्य रावणस्य दुरात्मनः। तां दृष्ट्वा सर्वतोऽव्यग्रां प्रतिगम्य स राक्षसः
आविश्य लङ्कां वेगेन राजानमिदमब्रवीत्। एष वै वानरर्क्षौघो लङ्कां समभिवर्तते