रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः। प्रत्यभाषत काकुत्स्थं सौहार्देनाभिपूरितः
किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे। यत् त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः
मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम्। अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः
तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव। विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः
ततस्तु सुग्रीववचो निशम्य त- द्धरीश्वरेणाभिहितं नरेश्वरः। विभीषणेनाशु जगाम संगमं पतत्त्रिराजेन यथा पुरंदरः
thumb|एकोनविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनविंशः सर्गः ॥६-
राघवेणाभये दत्ते संनतो रावणानुजः। विभीषणो महाप्राज्ञो भूमिं समवलोकयत्
खात् पपातावनिं हृष्टो भक्तैरनुचरैः सह। स तु रामस्य धर्मात्मा निपपात विभीषणः
पादयोर्निपपाताथ चतुर्भिः सह राक्षसैः। अब्रवीच्च तदा वाक्यं रामं प्रति विभीषणः
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम्। अनुजो रावणस्याहं तेन चास्म्यवमानितः
भवन्तं सर्वभूतानां शरण्यं शरणं गतः। परित्यक्ता मया लङ्का मित्राणि च धनानि च
भवद्गतं हि मे राज्यं जीवितं च सुखानि च। तस्य तद् वचनं श्रुत्वा रामो वचनमब्रवीत्
वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव। आख्याहि मम तत्त्वेन राक्षसानां बलाबलम्
एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा। रावणस्य बलं सर्वमाख्यातुमुपचक्रमे
अवध्यः सर्वभूतानां गन्धर्वोरगपक्षिणाम्। राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान्। कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि
राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः। कैलासे येन समरे मणिभद्रः पराजितः
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि। धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित्
संग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम्। अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः। अनीकपास्तु तस्यैते लोकपालसमा युधि
दशकोटिसहस्राणि रक्षसां कामरूपिणाम्। मांसशोणितभक्ष्याणां लङ्कापुरनिवासिनाम्
स तैस्तु सहितो राजा लोकपालानयोधयत्। सह देवैस्तु ते भग्ना रावणेन दुरात्मना
विभीषणस्य तु वचस्तच्छ्रुत्वा रघुसत्तमः। अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत्
यानि कर्मापदानानि रावणस्य विभीषण। आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम्
रसातलं वा प्रविशेत् पातालं वापि रावणः। पितामहसकाशं वा न मे जीवन् विमोक्ष्यते
अहत्वा रावणं संख्ये सपुत्रजनबान्धवम्। अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः। शिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवं प्रचक्रमे
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे। करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्। अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्। राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद