अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति संगताः। प्रणादश्च महानेषोऽन्योन्यस्य भयमागतम्। इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः। मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः
एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः। उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत्
रावणेन प्रणिहितं तमवेहि निशाचरम्। तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर
राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः। प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयि वानघ
एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः। वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्
स सुग्रीवस्य तद् वाक्यं रामः श्रुत्वा विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः। सूक्ष्ममप्यहितं कर्तुं मम शक्तः कथंचन
पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्। अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर
श्रूयते हि कपोतेन शत्रुः शरणमागतः। अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः
स हि तं प्रतिजग्राह भार्याहर्तारमागतम्। कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः
ऋषेः कण्वस्य पुत्रोण कण्डुना परमर्षिणा। शृणु गाथा पुरा गीता धर्मिष्ठा सत्यवादिना
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्। न हन्यादानृशंस्यार्थमपि शत्रुं परंतप
आर्तो वा यदि वा दृप्तः परेषां शरणं गतः। अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना
स चेद् भयाद् वा मोहाद् वा कामाद् वापि न रक्षति। स्वया शक्त्या यथान्यायं तत् पापं लोकगर्हितम्
विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः। आनाय सुकृतं तस्य सर्वं गच्छेदरक्षितः
एवं दोषो महानत्र प्रपन्नानामरक्षणे। अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्। धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात् तु फलोदये
सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया। विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्
रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः। प्रत्यभाषत काकुत्स्थं सौहार्देनाभिपूरितः
किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे। यत् त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः
मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम्। अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः
तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव। विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः
ततस्तु सुग्रीववचो निशम्य त- द्धरीश्वरेणाभिहितं नरेश्वरः। विभीषणेनाशु जगाम संगमं पतत्त्रिराजेन यथा पुरंदरः
thumb|एकोनविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनविंशः सर्गः ॥६-
राघवेणाभये दत्ते संनतो रावणानुजः। विभीषणो महाप्राज्ञो भूमिं समवलोकयत्
खात् पपातावनिं हृष्टो भक्तैरनुचरैः सह। स तु रामस्य धर्मात्मा निपपात विभीषणः
पादयोर्निपपाताथ चतुर्भिः सह राक्षसैः। अब्रवीच्च तदा वाक्यं रामं प्रति विभीषणः
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम्। अनुजो रावणस्याहं तेन चास्म्यवमानितः