न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता। प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः
अशङ्कितमतिः स्वस्थो न शठः परिसर्पति। न चास्य दुष्टवागस्ति तस्मान्मे नास्ति संशयः
देशकालोपपन्नं च कार्यं कार्यविदां वर। सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम्
उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम्। वालिनं च हतं श्रुत्वा सुग्रीवं चाभिषेचितम्
राज्यं प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः। एतावत् तु पुरस्कृत्य युज्यते तस्य संग्रहः
यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति। प्रमाणं त्वं हि शेषस्य श्रुत्वा बुद्धिमतां वर
thumb|एकोनविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टादशः सर्गः ॥६-
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह। प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्
ममापि च विवक्षास्ति काचित् प्रति विभीषणम्। श्रोतुमिच्छामि तत् सर्वं भवद्भिः श्रेयसि स्थितैः
मित्रभावेन सम्प्राप्तं न त्यजेयं कथंचन। दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम्
सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः। ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत्
को नाम स भवेत् तस्य यमेष न परित्यजेत्। वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य तु
ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम्। इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च। न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः
अस्ति सूक्ष्मतरं किंचिद् यथात्र प्रतिभाति मा। प्रत्यक्षं लौकिकं चापि वर्तते सर्वराजसु
अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः। व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः
अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान्। एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः
यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च। तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु
न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः। पण्डिता हि भविष्यन्ति तस्माद् ग्राह्यो विभीषणः
अव्यग्राश्च प्रहृष्टाश्च ते भविष्यन्ति संगताः। प्रणादश्च महानेषोऽन्योन्यस्य भयमागतम्। इति भेदं गमिष्यन्ति तस्माद् ग्राह्यो विभीषणः
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः। मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः
एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः। उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत्
रावणेन प्रणिहितं तमवेहि निशाचरम्। तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर
राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः। प्रहर्तुं त्वयि विश्वस्ते विश्वस्ते मयि वानघ
एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः। वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्
स सुग्रीवस्य तद् वाक्यं रामः श्रुत्वा विमृश्य च। ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम्
स दुष्टो वाप्यदुष्टो वा किमेष रजनीचरः। सूक्ष्ममप्यहितं कर्तुं मम शक्तः कथंचन
पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्। अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर
श्रूयते हि कपोतेन शत्रुः शरणमागतः। अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः