यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्। गुणान् वापि बहून् ज्ञात्वा संग्रहः क्रियतां नृप
शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत्। क्षिप्रमस्मिन् नरव्याघ्र चारः प्रतिविधीयताम्
प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना। परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः
जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः। वाक्यं विज्ञापयामास गुणवद् दोषवर्जितम्
बद्धवैराच्च पापाच्च राक्षसेन्द्राद् विभीषणः। अदेशकाले सम्प्राप्तः सर्वथा शंक्यतामयम्
ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः। वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम्
अनुजो नाम तस्यैष रावणस्य विभीषणः। पृच्छ्यतां मधुरेणायं शनैर्नरपतीश्वर
भावमस्य तु विज्ञाय तत्त्वतस्तं करिष्यसि। यदि दुष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ
अथ संस्कारसम्पन्नो हनूमान् सचिवोत्तमः। उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु
न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्। अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन्
न वादान्नापि संघर्षान्नाधिक्यान्न च कामतः। वक्ष्यामि वचनं राजन् यथार्थं राम गौरवात्
अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव। तत्र दोषं प्रपश्यामि क्रिया नह्युपपद्यते
ऋते नियोगात् सामर्थ्यमवबोद्धुं न शक्यते। सहसा विनियोगोऽपि दोषवान् प्रतिभाति मे
चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव। अर्थस्यासम्भवात् तत्र कारणं नोपपद्यते
अदेशकाले सम्प्राप्त इत्ययं यद् विभीषणः। विवक्षा तत्र मेऽस्तीयं तां निबोध यथामति
एष देशश्च कालश्च भवतीह यथा तथा। पुरुषात् पुरुषं प्राप्य तथा दोषगुणावपि
दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि। युक्तमागमनं ह्यत्र सदृशं तस्य बुद्धितः
अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यतामिति। यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता
पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः। तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम्
अशक्यं सहसा राजन् भावो बोद्धुं परस्य वै। अन्तरेण स्वरैर्भिन्नैर्नैपुण्यं पश्यतां भृशम्
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता। प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः
अशङ्कितमतिः स्वस्थो न शठः परिसर्पति। न चास्य दुष्टवागस्ति तस्मान्मे नास्ति संशयः
देशकालोपपन्नं च कार्यं कार्यविदां वर। सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम्
उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम्। वालिनं च हतं श्रुत्वा सुग्रीवं चाभिषेचितम्
राज्यं प्रार्थयमानस्तु बुद्धिपूर्वमिहागतः। एतावत् तु पुरस्कृत्य युज्यते तस्य संग्रहः
यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति। प्रमाणं त्वं हि शेषस्य श्रुत्वा बुद्धिमतां वर
thumb|एकोनविंशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टादशः सर्गः ॥६-
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह। प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्
ममापि च विवक्षास्ति काचित् प्रति विभीषणम्। श्रोतुमिच्छामि तत् सर्वं भवद्भिः श्रेयसि स्थितैः
मित्रभावेन सम्प्राप्तं न त्यजेयं कथंचन। दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम्