यदुक्तं कपिराजेन रावणावरजं प्रति। वाक्यं हेतुमदत्यर्थं भवद्भिरपि च श्रुतम्
सुहृदामर्थकृच्छ्रेषु युक्तं बुद्धिमता सदा। समर्थेनोपसंदेष्टुं शाश्वतीं भूतिमिच्छता
इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः। सोपचारं तदा राममूचुः प्रियचिकीर्षवः
अज्ञातं नास्ति ते किंचित् त्रिषु लोकेषु राघव। आत्मानं पूजयन् राम पृच्छस्यस्मान् सुहृत्तया
त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः। परीक्ष्यकारी स्मृतिमान् निसृष्टात्मा सुहृत्सु च
तस्मादेकैकशस्तावद् ब्रुवन्तु सचिवास्तव। हेतुतो मतिसम्पन्नाः समर्थाश्च पुनः पुनः
इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः। विभीषणपरीक्षार्थमुवाच वचनं हरिः
शत्रोः सकाशात् सम्प्राप्तः सर्वथा तर्क्य एव हि। विश्वासनीयः सहसा न कर्तव्यो विभीषणः
छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः। प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत्
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह। गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत्
यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्। गुणान् वापि बहून् ज्ञात्वा संग्रहः क्रियतां नृप
शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत्। क्षिप्रमस्मिन् नरव्याघ्र चारः प्रतिविधीयताम्
प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना। परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः
जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः। वाक्यं विज्ञापयामास गुणवद् दोषवर्जितम्
बद्धवैराच्च पापाच्च राक्षसेन्द्राद् विभीषणः। अदेशकाले सम्प्राप्तः सर्वथा शंक्यतामयम्
ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः। वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम्
अनुजो नाम तस्यैष रावणस्य विभीषणः। पृच्छ्यतां मधुरेणायं शनैर्नरपतीश्वर
भावमस्य तु विज्ञाय तत्त्वतस्तं करिष्यसि। यदि दुष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ
अथ संस्कारसम्पन्नो हनूमान् सचिवोत्तमः। उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु
न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्। अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन्
न वादान्नापि संघर्षान्नाधिक्यान्न च कामतः। वक्ष्यामि वचनं राजन् यथार्थं राम गौरवात्
अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव। तत्र दोषं प्रपश्यामि क्रिया नह्युपपद्यते
ऋते नियोगात् सामर्थ्यमवबोद्धुं न शक्यते। सहसा विनियोगोऽपि दोषवान् प्रतिभाति मे
चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव। अर्थस्यासम्भवात् तत्र कारणं नोपपद्यते
अदेशकाले सम्प्राप्त इत्ययं यद् विभीषणः। विवक्षा तत्र मेऽस्तीयं तां निबोध यथामति
एष देशश्च कालश्च भवतीह यथा तथा। पुरुषात् पुरुषं प्राप्य तथा दोषगुणावपि
दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि। युक्तमागमनं ह्यत्र सदृशं तस्य बुद्धितः
अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यतामिति। यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता
पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः। तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम्
अशक्यं सहसा राजन् भावो बोद्धुं परस्य वै। अन्तरेण स्वरैर्भिन्नैर्नैपुण्यं पश्यतां भृशम्