प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम्। अनुप्रविश्य सोऽस्मासु भेदं कुर्यान्न संशयः
अथ वा स्वयमेवैष छिद्रमासाद्य बुद्धिमान्। अनुप्रविश्य विश्वस्ते कदाचित् प्रहरेदपि
मित्राटविबलं चैव मौलभृत्यबलं तथा। सर्वमेतद् बलं ग्राह्यं वर्जयित्वा द्विषद्बलम्
प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो। आगतश्च रिपुः साक्षात् कथमस्मिंश्च विश्वसेत्
रावणस्यानुजो भ्राता विभीषण इति श्रुतः। चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः
रावणेन प्रणीतं हि तमवेहि विभीषणम्। तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर
राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमिहागतः। प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि चानघ
वध्यतामेष तीव्रेण दण्डेन सचिवैः सह। रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः
एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः। वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्
सुग्रीवस्य तु तद् वाक्यं श्रुत्वा रामो महाबलः। समीपस्थानुवाचेदं हनुमत्प्रमुखान् कपीन्
यदुक्तं कपिराजेन रावणावरजं प्रति। वाक्यं हेतुमदत्यर्थं भवद्भिरपि च श्रुतम्
सुहृदामर्थकृच्छ्रेषु युक्तं बुद्धिमता सदा। समर्थेनोपसंदेष्टुं शाश्वतीं भूतिमिच्छता
इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः। सोपचारं तदा राममूचुः प्रियचिकीर्षवः
अज्ञातं नास्ति ते किंचित् त्रिषु लोकेषु राघव। आत्मानं पूजयन् राम पृच्छस्यस्मान् सुहृत्तया
त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः। परीक्ष्यकारी स्मृतिमान् निसृष्टात्मा सुहृत्सु च
तस्मादेकैकशस्तावद् ब्रुवन्तु सचिवास्तव। हेतुतो मतिसम्पन्नाः समर्थाश्च पुनः पुनः
इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः। विभीषणपरीक्षार्थमुवाच वचनं हरिः
शत्रोः सकाशात् सम्प्राप्तः सर्वथा तर्क्य एव हि। विश्वासनीयः सहसा न कर्तव्यो विभीषणः
छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः। प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत्
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह। गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत्
यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्। गुणान् वापि बहून् ज्ञात्वा संग्रहः क्रियतां नृप
शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत्। क्षिप्रमस्मिन् नरव्याघ्र चारः प्रतिविधीयताम्
प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना। परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः
जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः। वाक्यं विज्ञापयामास गुणवद् दोषवर्जितम्
बद्धवैराच्च पापाच्च राक्षसेन्द्राद् विभीषणः। अदेशकाले सम्प्राप्तः सर्वथा शंक्यतामयम्
ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः। वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम्
अनुजो नाम तस्यैष रावणस्य विभीषणः। पृच्छ्यतां मधुरेणायं शनैर्नरपतीश्वर
भावमस्य तु विज्ञाय तत्त्वतस्तं करिष्यसि। यदि दुष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ
अथ संस्कारसम्पन्नो हनूमान् सचिवोत्तमः। उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु
न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्। अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन्