नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः। घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः। कृत्स्नाद् भयाज्ज्ञातिभयं कुकष्टं विहितं च नः
विद्यते गोषु सम्पन्नं विद्यते ज्ञातितो भयम्। विद्यते स्त्रीषु चापल्यं विद्यते ब्राह्मणे तपः
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः। ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः। न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम्
यथा शरदि मेघानां सिञ्चतामपि गर्जताम्। न भवत्यम्बुसंक्लेदस्तथानार्येषु सौहृदम्
यथा मधुकरस्तर्षाद् रसं विन्दन्न तिष्ठति। तथा त्वमपि तत्रैव तथानार्येषु सौहृदम्
यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि। रसमत्र न विन्देत तथानार्येषु सौहृदम्
यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः। दूषयत्यात्मनो देहं तथानार्येषु सौहृदम्
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः। उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः। अन्तरिक्षगतः श्रीमान् भ्राता वै राक्षसाधिपम्
स त्वं भ्रान्तोऽसि मे राजन् ब्रूहि मां यद् यदिच्छसि। ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः। इदं हि परुषं वाक्यं न क्षमाम्यग्रजस्य ते
सुनीतं हितकामेन वाक्यमुक्तं दशानन। न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः
सुलभाः पुरुषा राजन् सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः
बद्धं कालस्य पाशेन सर्वभूतापहारिणः। न नश्यन्तमुपेक्षे त्वां प्रदीप्तं शरणं यथा
दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः। न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः
शूराश्च बलवन्तश्च कृतास्त्राश्च नरा रणे। कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः
तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता। आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्। स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना
निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर। परान्तकाले हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्
thumb|सप्तदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तदशः सर्गः ॥६-
इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः। आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम्। गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः
ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः। तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः। वरायुधधरो वीरो दिव्याभरणभूषितः
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः। वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान्
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह। हनुमत्प्रमुखान् सर्वानिदं वचनमुत्तमम्
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः। राक्षसोभ्येति पश्यध्वमस्मान् हन्तुं न संशयः
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः। सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन्
शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम्। निपतन्ति हता यावद् धरण्यामल्पचेतनाः
तेषां सम्भाषमाणानामन्योन्यं स विभीषणः। उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत