मूढोऽप्रगल्भोऽविनयोपपन्न- स्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा। मूर्खस्त्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद् बालतया ब्रवीषि
को ब्रह्मदण्डप्रतिमप्रकाशा- नर्चिष्मतः कालनिकाशरूपान्। सहेत बाणान् यमदण्डकल्पान् समक्षमुक्तान् युधि राघवेण
धनानि रत्नानि सुभूषणानि वासांसि दिव्यानि मणींश्च चित्रान्। सीतां च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः
thumb|षोडशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षोडशः सर्गः ॥६-
सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्। अब्रवीत् परुषं वाक्यं रावणः कालचोदितः
वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण च। न तु मित्रप्रवादेन संवसेच्छत्रुसेविना
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस। हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा
प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस। ज्ञातयोऽप्यवमन्यन्ते शूरं परिभवन्ति च
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः। प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने पुरा। पाशहस्तान् नरान् दृष्ट्वा शृणुष्व गदतो मम
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः। घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः। कृत्स्नाद् भयाज्ज्ञातिभयं कुकष्टं विहितं च नः
विद्यते गोषु सम्पन्नं विद्यते ज्ञातितो भयम्। विद्यते स्त्रीषु चापल्यं विद्यते ब्राह्मणे तपः
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः। ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः
यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः। न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम्
यथा शरदि मेघानां सिञ्चतामपि गर्जताम्। न भवत्यम्बुसंक्लेदस्तथानार्येषु सौहृदम्
यथा मधुकरस्तर्षाद् रसं विन्दन्न तिष्ठति। तथा त्वमपि तत्रैव तथानार्येषु सौहृदम्
यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि। रसमत्र न विन्देत तथानार्येषु सौहृदम्
यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः। दूषयत्यात्मनो देहं तथानार्येषु सौहृदम्
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः। उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः। अन्तरिक्षगतः श्रीमान् भ्राता वै राक्षसाधिपम्
स त्वं भ्रान्तोऽसि मे राजन् ब्रूहि मां यद् यदिच्छसि। ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः। इदं हि परुषं वाक्यं न क्षमाम्यग्रजस्य ते
सुनीतं हितकामेन वाक्यमुक्तं दशानन। न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः
सुलभाः पुरुषा राजन् सततं प्रियवादिनः। अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः
बद्धं कालस्य पाशेन सर्वभूतापहारिणः। न नश्यन्तमुपेक्षे त्वां प्रदीप्तं शरणं यथा
दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः। न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः
शूराश्च बलवन्तश्च कृतास्त्राश्च नरा रणे। कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः
तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता। आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्। स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना
निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर। परान्तकाले हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम्
thumb|सप्तदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तदशः सर्गः ॥६-