कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥१-३-
स यथा कथितं पूर्वं नारदेन महात्मना । रघुवंशस्य चरितं चकार भगवान् मुनिः ॥१-३-
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥१-३-
नाना चित्राः कथाश्चान्या विश्वामित्रसहायने । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥१-३-
रामरामविवादं च गुणान् दाशरथेस्तथा । तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥१-३-
विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥१-३-
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ॥१-३-
गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥१-३-
वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥१-३-
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥१-३-
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥१-३-
दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥१-३-
वधं खरत्रिशिरसोरुत्थानं रावणस्य च । मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥१-३-
राघवस्य विलापं च गृध्रराजनिबर्हणम् । कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥१-३-
शबरीदर्शनं चैव फलमूलाशनं तथा । प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥१-३-
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥१-३-
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ताराविलापं समयं वर्षरात्रनिवासनम् ॥१-३-
कोपं राघवसिंहस्य बलानामुपसंग्रहम् दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥१-३-
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥१-३-
पर्वतारोहणं चैव सागरस्यापि लङ्घनम् समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥१-३-
राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम् सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥१-३-
रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् आपानभूमिगमनमवरोधस्य दर्शनम् ॥१-३-
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥१-३-
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥१-३-
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥१-३-
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥१-३-
राघवाश्वासनं चैव मणिनिर्यातनं तथा संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥१-३-
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् विभीषणेन संसर्गं वधोपायनिवेदनम् ॥१-३-
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥१-३-
बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥१-३-