यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुंगवानाम्। वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली
न कुम्भकर्णेन्द्रजितौ च राजं- स्तथा महापार्श्वमहोदरौ वा। निकुम्भकुम्भौ च तथातिकायः स्थातुं समर्था युधि राघवस्य
जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राप्यथवा मरुद्भिः। न वासवस्याङ्कगतो न मृत्यो- र्नभो न पातालमनुप्रविष्टः
निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे। न नो भयं विद्म न दैवतेभ्यो न दानवेभ्योऽप्यथवा कदाचित्
न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोरगेभ्यः। कथं नु रामाद् भविता भयं नो नरेन्द्रपुत्रात् समरे कदाचित्
प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी। ततो महार्थं वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः
प्रहस्त राजा च महोदरश्च त्वं कुम्भकर्णश्च यथार्थजातम्। ब्रवीत रामं प्रति तन्न शक्यं यथा गतिः स्वर्गमधर्मबुद्धेः
वधस्तु रामस्य मया त्वया च प्रहस्त सर्वैरपि राक्षसैर्वा। कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य
धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः। पुरोऽस्य देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः
तीक्ष्णा न तावत् तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः। भित्त्वा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम्
न रावणो नातिबलस्त्रिशीर्षो न कुम्भकर्णस्य सुतो निकुम्भः। न चेन्द्रजिद् दाशरथिं प्रवोढुं त्वं वा रणे शक्रसमं समर्थः
देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा। अकम्पनश्चाद्रिसमानसारः स्थातुं न शक्ता युधि राघवस्य
अयं च राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः। अन्वास्यते राक्षसनाशनार्थे तीक्ष्णः प्रकृत्या ह्यसमीक्षकारी
अनन्तभोगेन सहस्रमूर्ध्ना नागेन भीमेन महाबलेन। बलात् परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु
यावद्धि केशग्रहणात् सुहृद्भिः समेत्य सर्वैः परिपूर्णकामैः। निगृह्य राजा परिरक्षितव्यो भूतैर्यथा भीमबलैर्गृहीतः
सुवारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः। युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन् सः
इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृज्जनस्य। सम्यग्घि वाक्यं स्वमतं ब्रवीमि नरेन्द्रपुत्राय ददातु मैथिलीम्
परस्य वीर्यं स्वबलं च बुद्ध्वा स्थानं क्षयं चैव तथैव वृद्धिम्। तथा स्वपक्षेऽप्यनुमृश्य बुद्ध्या वदेत् क्षमं स्वामिहितं स मन्त्री
thumb|पञ्चदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे पञ्चदशः सर्गः ॥६-
बृहस्पतेस्तुल्यमतेर्वचस्त- न्निशम्य यत्नेन विभीषणस्य। ततो महात्मा वचनं बभाषे तत्रेन्द्रजिन्नैर्ऋतयूथमुख्यः
किं नाम ते तात कनिष्ठ वाक्य- मनर्थकं वै बहुभीतवच्च। अस्मिन् कुले योऽपि भवेन्न जातः सोऽपीदृशं नैव वदेन्न कुर्यात्
सत्त्वेन वीर्येण पराक्रमेण धैर्येण शौर्येण च तेजसा च। एकः कुलेऽस्मिन् पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः
किं नाम तौ मानुषराजपुत्रा- वस्माकमेकेन हि राक्षसेन। सुप्राकृतेनापि निहन्तुमेतौ शक्यौ कुतो भीषयसे स्म भीरो
त्रिलोकनाथो ननु देवराजः शक्रो मया भूमितले निविष्टः। भयार्पिताश्चापि दिशः प्रपन्नाः सर्वे तदा देवगणाः समग्राः
ऐरावतो निःस्वनमुन्नदन् स निपातितो भूमितले मया तु। विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः
सोऽहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोककर्ता। कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः
अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद् वचनं निशम्य। ततो महार्थं वचनं बभाषे विभीषणः शस्त्रभृतां वरिष्ठः
न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धिः। तस्मात् त्वयाप्यात्मविनाशनाय वचोऽर्थहीनं बहु विप्रलप्तम्
पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः। यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम्
त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहानयत् त्वाम्। बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम्