लब्धकामस्य ते पश्चादागमिष्यति किं भयम्। प्राप्तमप्राप्तकालं वा सर्वं प्रतिविधास्यसे
कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः। प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम्
उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम्। समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये
इह प्राप्तान् वयं सर्वाञ्छत्रूंस्तव महाबल। वशे शस्त्रप्रतापेन करिष्यामो न संशयः
एवमुक्तस्तदा राजा महापार्श्वेन रावणः। तस्य सम्पूजयन् वाक्यमिदं वचनमब्रवीत्
महापार्श्व निबोध त्वं रहस्यं किंचिदात्मनः। चिरवृत्तं तदाख्यास्ये यदवाप्तं पुरा मया
पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्। चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव
सा प्रसह्य मया भुक्ता कृता विवसना ततः। स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा
अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि। तदा ते शतधा मूर्धा फलिष्यति न संशयः
इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम्। नारोहये बलात् सीतां वैदेहीं शयने शुभे
सागरस्येव मे वेगो मारुतस्येव मे गतिः। नैतद् दाशरथिर्वेद ह्यासादयति तेन माम्
को हि सिंहमिवासीनं सुप्तं गिरिगुहाशये। क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति
न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्नगानिव। रामः पश्यति संग्रामे तेन मामभिगच्छति
क्षिप्रं वज्रसमैर्बाणैः शतधा कार्मुकच्युतैः। राममादीपयिष्यामि उल्काभिरिव कुञ्जरम्
तच्चास्य बलमादास्ये बलेन महता वृतः। उदितः सविता काले नक्षत्राणां प्रभामिव
न वासवेनापि सहस्रचक्षुषा युधास्मि शक्यो वरुणेन वा पुनः। मया त्वियं बाहुबलेन निर्जिता पुरा पुरी वैश्रवणेन पालिता
thumb|चतुर्दशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्दशः सर्गः ॥६-
निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि। विभीषणो राक्षसराजमुख्य- मुवाच वाक्यं हितमर्थयुक्तम्
वृतो हि बाह्वन्तरभोगराशि- श्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः। पञ्चाङ्गुलीपञ्चशिरोऽतिकायः सीतामहाहिस्तव केन राजन्
यावन्न लङ्कां समभिद्रवन्ति बलीमुखाः पर्वतकूटमात्राः। दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली
यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुंगवानाम्। वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैथिली
न कुम्भकर्णेन्द्रजितौ च राजं- स्तथा महापार्श्वमहोदरौ वा। निकुम्भकुम्भौ च तथातिकायः स्थातुं समर्था युधि राघवस्य
जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राप्यथवा मरुद्भिः। न वासवस्याङ्कगतो न मृत्यो- र्नभो न पातालमनुप्रविष्टः
निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे। न नो भयं विद्म न दैवतेभ्यो न दानवेभ्योऽप्यथवा कदाचित्
न यक्षगन्धर्वमहोरगेभ्यो भयं न संख्ये पतगोरगेभ्यः। कथं नु रामाद् भविता भयं नो नरेन्द्रपुत्रात् समरे कदाचित्
प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी। ततो महार्थं वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः
प्रहस्त राजा च महोदरश्च त्वं कुम्भकर्णश्च यथार्थजातम्। ब्रवीत रामं प्रति तन्न शक्यं यथा गतिः स्वर्गमधर्मबुद्धेः
वधस्तु रामस्य मया त्वया च प्रहस्त सर्वैरपि राक्षसैर्वा। कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य
धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः। पुरोऽस्य देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः
तीक्ष्णा न तावत् तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः। भित्त्वा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम्