नहि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित्। सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम
तस्य कामपरीतस्य निशम्य परिदेवितम्। कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत्
यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता। सकृत् समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम्
सर्वमेतन्महाराज कृतमप्रतिमं तव। विधीयेत सहास्माभिरादावेवास्य कर्मणः
न्यायेन राजकार्याणि यः करोति दशानन। न स संतप्यते पश्चान्निश्चितार्थमतिर्नृपः
अनुपायेन कर्माणि विपरीतानि यानि च। क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव
यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति। पूर्वं चापरकार्याणि स न वेद नयानयौ
चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम्। छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः
त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम्। दिष्ट्या त्वां नावधीद् रामो विषमिश्रमिवामिषम्
तस्मात् त्वया समारब्धं कर्म ह्यप्रतिमं परैः। अहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ
अहमुत्सादयिष्यामि शत्रूंस्तव निशाचर। यदि शक्रविवस्वन्तौ यदि पावकमारुतौ। तावहं योधयिष्यामि कुबेरवरुणावपि
गिरिमात्रशरीरस्य महापरिघयोधिनः। नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद् वै पुरंदरः
पुनर्मां स द्वितीयेन शरेण निहनिष्यति। ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस
वधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये। हत्वा च रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान्
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कार्याणि हितानि विज्वरः। मया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति
thumb|त्रयोदशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रयोदशः सर्गः ॥६-
रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः। मुहूर्तमनुसंचिन्त्य प्राञ्जलिर्वाक्यमब्रवीत्
यः खल्वपि वनं प्राप्य मृगव्यालनिषेवितम्। न पिबेन्मधु सम्प्राप्य स नरो बालिशो भवेत्
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण। रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु
बलात् कुक्कुटवृत्तेन प्रवर्तस्व महाबल। आक्रम्याक्रम्य सीतां वै तां भुङ्क्ष्व च रमस्व च
लब्धकामस्य ते पश्चादागमिष्यति किं भयम्। प्राप्तमप्राप्तकालं वा सर्वं प्रतिविधास्यसे
कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः। प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम्
उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम्। समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये
इह प्राप्तान् वयं सर्वाञ्छत्रूंस्तव महाबल। वशे शस्त्रप्रतापेन करिष्यामो न संशयः
एवमुक्तस्तदा राजा महापार्श्वेन रावणः। तस्य सम्पूजयन् वाक्यमिदं वचनमब्रवीत्
महापार्श्व निबोध त्वं रहस्यं किंचिदात्मनः। चिरवृत्तं तदाख्यास्ये यदवाप्तं पुरा मया
पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्। चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव
सा प्रसह्य मया भुक्ता कृता विवसना ततः। स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा
अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि। तदा ते शतधा मूर्धा फलिष्यति न संशयः
इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम्। नारोहये बलात् सीतां वैदेहीं शयने शुभे