विहितं बहिरन्तश्च बलं बलवतस्तव। कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्ति ते
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः। सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः
प्रियाप्रिये सुखे दुःखे लाभालाभे हिताहिते। धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम्
सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा। मन्त्रकर्मनियुक्तानि न जातु विफलानि मे
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः। भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम्
अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः। कुम्भकर्णस्य तु स्वप्नान् नेममर्थमचोदयम्
अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः। सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः
सा मे न शय्यामारोढुमिच्छत्यलसगामिनी। त्रिषु लोकेषु चान्या मे न सीतासदृशी तथा
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना। हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता
सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ। दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः
हुताग्नेरर्चिसंकाशामेनां सौरीमिव प्रभाम्। उन्नसं विमलं वल्गु वदनं चारुलोचनम्
पश्यंस्तदवशस्तस्याः कामस्य वशमेयिवान्। क्रोधहर्षसमानेन दुर्वर्णकरणेन च
शोकसंतापनित्येन कामेन कलुषीकृतः। सा तु संवत्सरं कालं मामयाचत भामिनी
प्रतीक्षमाणा भर्तारं राममायतलोचना। तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम्
श्रान्तोऽहं सततं कामाद् यातो हय इवाध्वनि। कथं सागरमक्षोभ्यं तरिष्यन्ति वनौकसः
बहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ। अथवा कपिनैकेन कृतं नः कदनं महत्
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति। मानुषान्नो भयं नास्ति तथापि तु विमृश्यताम्
तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम्। ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन्
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ। सीतायाः पदवीं प्राप्य सम्प्राप्तौ वरुणालयम्
अदेया च यथा सीता वध्यौ दशरथात्मजौ। भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम्
नहि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित्। सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम
तस्य कामपरीतस्य निशम्य परिदेवितम्। कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत्
यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता। सकृत् समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम्
सर्वमेतन्महाराज कृतमप्रतिमं तव। विधीयेत सहास्माभिरादावेवास्य कर्मणः
न्यायेन राजकार्याणि यः करोति दशानन। न स संतप्यते पश्चान्निश्चितार्थमतिर्नृपः
अनुपायेन कर्माणि विपरीतानि यानि च। क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव
यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति। पूर्वं चापरकार्याणि स न वेद नयानयौ
चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम्। छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः
त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम्। दिष्ट्या त्वां नावधीद् रामो विषमिश्रमिवामिषम्
तस्मात् त्वया समारब्धं कर्म ह्यप्रतिमं परैः। अहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ