ते वाहनान्यवस्थाय यानानि विविधानि च। सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः। पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन्
ते समेत्य सभायां वै राक्षसा राजशासनात्। यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम्
मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः। अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः
समीयुस्तत्र शतशः शूराश्च बहवस्तथा। सभायां हेमवर्णायां सर्वार्थस्य सुखाय वै
ततो महात्मा विपुलं सुयुग्यं रथं वरं हेमविचित्रिताङ्गम्। शुभं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य
स पूर्वजायावरजः शशंस नामाथ पश्चाच्चरणौ ववन्दे। शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि
सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम्। तेषां परार्घ्यागुरुचन्दनानां स्रजां च गन्धाः प्रववुः समन्तात्
न चुक्रुशुर्नानृतमाह कश्चित् सभासदो नापि जजल्पुरुच्चैः। संसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते
स रावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी। तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः
thumb|द्वादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वादशः सर्गः ॥६-
स तां परिषदं कृत्स्नां समीक्ष्य समितिंजयः। प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम्
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः। योधा नगररक्षायां तथा व्यादेष्टुमर्हसि
स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम्। विनिक्षिपद् बलं सर्वं बहिरन्तश्च मन्दिरे
ततो विनिक्षिप्य बलं सर्वं नगरगुप्तये। प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च
विहितं बहिरन्तश्च बलं बलवतस्तव। कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्ति ते
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः। सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः
प्रियाप्रिये सुखे दुःखे लाभालाभे हिताहिते। धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम्
सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा। मन्त्रकर्मनियुक्तानि न जातु विफलानि मे
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः। भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम्
अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः। कुम्भकर्णस्य तु स्वप्नान् नेममर्थमचोदयम्
अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः। सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः
सा मे न शय्यामारोढुमिच्छत्यलसगामिनी। त्रिषु लोकेषु चान्या मे न सीतासदृशी तथा
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना। हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता
सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ। दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः
हुताग्नेरर्चिसंकाशामेनां सौरीमिव प्रभाम्। उन्नसं विमलं वल्गु वदनं चारुलोचनम्
पश्यंस्तदवशस्तस्याः कामस्य वशमेयिवान्। क्रोधहर्षसमानेन दुर्वर्णकरणेन च
शोकसंतापनित्येन कामेन कलुषीकृतः। सा तु संवत्सरं कालं मामयाचत भामिनी
प्रतीक्षमाणा भर्तारं राममायतलोचना। तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम्
श्रान्तोऽहं सततं कामाद् यातो हय इवाध्वनि। कथं सागरमक्षोभ्यं तरिष्यन्ति वनौकसः