प्रमदाजनसम्बाधं प्रजल्पितमहापथम्। तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम्
गन्धर्वाणामिवावासमालयं मरुतामिव। रत्नसंचयसम्बाधं भवनं भोगिनामिव
तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिवान्। अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः
पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान्। शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान्
पूजितान् दधिपात्रैश्च सर्पिभिः सुमनोक्षतैः। मन्त्रवेदविदो विप्रान् ददर्श स महाबलः
स राजदृष्टिसम्पन्नमासनं हेमभूषितम्। जगाम समुदाचारं प्रयुज्याचारकोविदः
स रावणं महात्मानं विजने मन्त्रिसंनिधौ। उवाच हितमत्यर्थं वचनं हेतुनिश्चितम्
प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः। देशकालार्थसंवादि दृष्टलोकपरावरः
यदाप्रभृति वैदेही सम्प्राप्तेह परंतप। तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः
सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः। मन्त्रसंधुक्षितोऽप्यग्निर्न सम्यगभिवर्धते
अग्निष्टेष्वग्निशालासु तथा ब्रह्मस्थलीषु च। सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः
गवां पयांसि स्कन्नानि विमदा वरकुञ्जराः। दीनमश्वाः प्रहेषन्ते नवग्रासाभिनन्दिनः
खरोष्ट्राश्वतरा राजन् भिन्नरोमाः स्रवन्ति च। न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः
वायसाः संघशः क्रूरा व्याहरन्ति समन्ततः। समवेताश्च दृश्यन्ते विमानाग्रेषु संघशः
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः। उपपन्नाश्च संध्ये द्वे व्याहरन्त्यशिवं शिवाः
क्रव्यादानां मृगाणां च पुरीद्वारेषु संघशः। श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः
तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम्। रोचये वीर वैदेही राघवाय प्रदीयताम्
इदं च यदि वा मोहाल्लोभाद् वा व्याहृतं मया। तत्रापि च महाराज न दोषं कर्तुमर्हसि
अयं हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते। रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च
प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः। अवश्यं च मया वाच्यं यद् दृष्टमथवा श्रुतम्। सम्प्रधार्य यथान्यायं तद् भवान् कर्तुमर्हति
इति स्वमन्त्रिणां मध्ये भ्राता भ्रातरमूचिवान्। रावणं रक्षसां श्रेष्ठं पथ्यमेतद् विभीषणः
हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसम्प्रतिक्षमम्। निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत्
भयं न पश्यामि कुतश्चिदप्यहं न राघवः प्राप्स्यति जातु मैथिलीम्। सुरैः सहेन्द्रैरपि संगरे कथं ममाग्रतः स्थास्यति लक्ष्मणाग्रजः
इत्येवमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्डविक्रमः। दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम्
thumb|एकादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकादशः सर्गः ॥६-
स बभूव कृशो राजा मैथिलीकाममोहितः। असन्मानाच्च सुहृदां पापः पापेन कर्मणा
अतीव कामसम्पन्नो वैदेहीमनुचिन्तयन्। अतीतसमये काले तस्मिन् वै युधि रावणः। अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत
स हेमजालविततं मणिविद्रुमभूषितम्। उपगम्य विनीताश्वमारुरोह महारथम्
तमास्थाय रथश्रेष्ठं महामेघसमस्वनम्। प्रययौ रक्षसां श्रेष्ठो दशग्रीवः सभां प्रति
असिचर्मधरा योधाः सर्वायुधधरास्ततः। राक्षसा राक्षसेन्द्रस्य पुरस्तात् सम्प्रतस्थिरे