विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः। रामस्य दयिता पत्नी न स्वयं यदि दीयते
प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम। हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली
पुरा शरत्सूर्यमरीचिसंनिभान् नवाग्रपुङ्खान् सुदृढान् नृपात्मजः। सृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली
त्यजाशु कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम्। प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम्
thumb|दशमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे दशमः सर्गः ॥६-
ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः। राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः
शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम्। सुविभक्तमहाकक्षं महाजनपरिग्रहम्
मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम्। राक्षसैराप्तपर्याप्तैः सर्वतः परिरक्षितम्
मत्तमातङ्गनिःश्वासैर्व्याकुलीकृतमारुतम्। शङ्खघोषमहाघोषं तूर्यसम्बाधनादितम्
प्रमदाजनसम्बाधं प्रजल्पितमहापथम्। तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम्
गन्धर्वाणामिवावासमालयं मरुतामिव। रत्नसंचयसम्बाधं भवनं भोगिनामिव
तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिवान्। अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः
पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान्। शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान्
पूजितान् दधिपात्रैश्च सर्पिभिः सुमनोक्षतैः। मन्त्रवेदविदो विप्रान् ददर्श स महाबलः
स राजदृष्टिसम्पन्नमासनं हेमभूषितम्। जगाम समुदाचारं प्रयुज्याचारकोविदः
स रावणं महात्मानं विजने मन्त्रिसंनिधौ। उवाच हितमत्यर्थं वचनं हेतुनिश्चितम्
प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः। देशकालार्थसंवादि दृष्टलोकपरावरः
यदाप्रभृति वैदेही सम्प्राप्तेह परंतप। तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः
सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः। मन्त्रसंधुक्षितोऽप्यग्निर्न सम्यगभिवर्धते
अग्निष्टेष्वग्निशालासु तथा ब्रह्मस्थलीषु च। सरीसृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः
गवां पयांसि स्कन्नानि विमदा वरकुञ्जराः। दीनमश्वाः प्रहेषन्ते नवग्रासाभिनन्दिनः
खरोष्ट्राश्वतरा राजन् भिन्नरोमाः स्रवन्ति च। न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः
वायसाः संघशः क्रूरा व्याहरन्ति समन्ततः। समवेताश्च दृश्यन्ते विमानाग्रेषु संघशः
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः। उपपन्नाश्च संध्ये द्वे व्याहरन्त्यशिवं शिवाः
क्रव्यादानां मृगाणां च पुरीद्वारेषु संघशः। श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः
तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम्। रोचये वीर वैदेही राघवाय प्रदीयताम्
इदं च यदि वा मोहाल्लोभाद् वा व्याहृतं मया। तत्रापि च महाराज न दोषं कर्तुमर्हसि
अयं हि दोषः सर्वस्य जनस्यास्योपलक्ष्यते। रक्षसां राक्षसीनां च पुरस्यान्तःपुरस्य च
प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः। अवश्यं च मया वाच्यं यद् दृष्टमथवा श्रुतम्। सम्प्रधार्य यथान्यायं तद् भवान् कर्तुमर्हति