अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते। तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्। जितरोषं दुराधर्षं तं धर्षयितुमिच्छथ
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्। गतिं हनूमतो लोके को विद्यात् तर्कयेत वा
बलान्यपरिमेयानि वीर्याणि च निशाचराः। परेषां सहसावज्ञा न कर्तव्या कथंचन
किं च राक्षसराजस्य रामेणापकृतं पुरा। आजहार जनस्थानाद् यस्य भार्यां यशस्विनः
खरो यद्यतिवृत्तस्तु स रामेण हतो रणे। अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम्
एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत्। आहृता सा परित्याज्या कलहार्थे कृते नु किम्
न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना। वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्। पुरीं दारयते बाणैर्दीयतामस्य मैथिली
यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी। नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम्
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः। रामस्य दयिता पत्नी न स्वयं यदि दीयते
प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम। हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली
पुरा शरत्सूर्यमरीचिसंनिभान् नवाग्रपुङ्खान् सुदृढान् नृपात्मजः। सृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली
त्यजाशु कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम्। प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम्
thumb|दशमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे दशमः सर्गः ॥६-
ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः। राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः
शैलाग्रचयसंकाशं शैलशृङ्गमिवोन्नतम्। सुविभक्तमहाकक्षं महाजनपरिग्रहम्
मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम्। राक्षसैराप्तपर्याप्तैः सर्वतः परिरक्षितम्
मत्तमातङ्गनिःश्वासैर्व्याकुलीकृतमारुतम्। शङ्खघोषमहाघोषं तूर्यसम्बाधनादितम्
प्रमदाजनसम्बाधं प्रजल्पितमहापथम्। तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम्
गन्धर्वाणामिवावासमालयं मरुतामिव। रत्नसंचयसम्बाधं भवनं भोगिनामिव
तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिवान्। अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः
पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान्। शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान्
पूजितान् दधिपात्रैश्च सर्पिभिः सुमनोक्षतैः। मन्त्रवेदविदो विप्रान् ददर्श स महाबलः
स राजदृष्टिसम्पन्नमासनं हेमभूषितम्। जगाम समुदाचारं प्रयुज्याचारकोविदः
स रावणं महात्मानं विजने मन्त्रिसंनिधौ। उवाच हितमत्यर्थं वचनं हेतुनिश्चितम्
प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः। देशकालार्थसंवादि दृष्टलोकपरावरः
यदाप्रभृति वैदेही सम्प्राप्तेह परंतप। तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः
सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः। मन्त्रसंधुक्षितोऽप्यग्निर्न सम्यगभिवर्धते